________________
२२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
चुकुषे] कुष । चुकोष पादं देवदत्तः, स एवं विवक्षते नाहं चुकोष, किन्तु चुकुषे पादः स्वयमेव । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “कुष्"द्वि० । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) षलोपः । ‘क-डश्च-ञ्' (४।१।४६) कु० → चु० ।
[कोषिष्यमाणः] कुष । कुक्ष्यति (?) (कोषिष्यति) पादं देवदत्तः, स एवं विवक्षते नाहं कुक्ष्यामि(?) (कोषिष्यामि), किन्तु कोषिष्यमाणं (?) (णः) ।
[अरञ्जि रञ् । अराङ्क्षीत् वस्त्रं रजकः, स एवं विवक्षते नाहं अराङ्क्षम्, किन्तु अरञ्जि । अद्यतनी त । एकधातौ०' (३।४।८६) जि → इ० - तलुक् ।
[ररञ्जे] रञ् । ररञ्ज वस्त्रं रजकः, स एवं विवक्ष्यते नाहं ररञ्ज, अपि तु ररले । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः ।
[रक्ष्यमाणं स्वयमेव रञ् । रक्ष्यति वस्त्रं रजकः, स एवं विवक्षते नाहं रक्ष्यामि, किन्तु रक्ष्यते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प्र० → आन - “स्य" आदिः । 'अतो म आने' (४।४।११४) मोऽन्तः । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे०' (१।३।५०) ग० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्, क-पसंयोगे क्ष० ।
[कतीह कुष्णानाः पादाः] किम् । का संख्या मानमेषां = कति । 'यत् तत्-किमः संख्याया डतिर्वा' (७।१।१५०) डतिप्र० → अति । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । जस् । ‘डति-ष्णः संख्याया०' (१।४।५४) जस्लुप् । इह प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । कुष् । कुष्णाति पादान् रोगः, स एवं विवक्षते नाहं कुष्णामि, किन्तु कुष्यन्ति पादाः स्वयमेव, ततः कुष्यन्तीत्येवंशीलाः । 'वयः-शक्ति-शीले' (५।२।२४) शानप्र० → आन । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण । प्रथमा जस् । पाद प्रथमा जस् ।
[कतीह रजमानानि वस्त्राणि] रञ् । रजति वस्त्रं रजकः, स एवं विवक्षते नाहं रजामि, किन्तु रज्यन्ति वस्त्राणि स्वयमेव; ततः रज्यन्तीत्येवंशीलानि = रजमानानि । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प० → आन । शव् । 'अतो म आने' (४।४।११४) मोऽन्तः । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । ‘नि दीर्घः' (१।४।८५) दीर्घः ।
क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती - रज्यन्तीत्यत्र नित्यमन्तादेशार्थम । [कुष्यन्ती] कुष् । प्रथमं पूर्ववत् वाक्यः कार्यः । कुष्यतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । अनेन श्यप्र० → य । 'अधातूदृदितः' (२।४।२) ङी । 'श्य-शवः' (२।१।११६) अन्त० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[रज्यन्ती] रञ् । प्रथमं पूर्ववत् वाक्यः कार्यः । रज्यतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । अनेन श्यप्र० → य । 'अधातूदृदितः' (२।४।२) ङी । 'श्य-शवः' (२।११११६) अन्त० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । अत्र शाटिका कर्मकर्ड छ।।
स्वादेः श्नुः ।।३।४।७५।।
[स्वादेः] सुरादिर्यस्याऽसौ स्वादिस्तस्मात् । [श्नुः] श्नु प्रथमा सि
शकारः शित्कार्यार्थः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org