SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । दिवादेः श्यः ।।३।४७२।। [दिवादेः] दिव आदिर्यस्याऽसौ दिवादिः, तस्मात् । [श्यः] श्य प्रथमा सि । [दीव्यति] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११-४४) दिव । वर्त्त० तिव । अनेन श्यप्र० । भ्वादे मिनो दीर्घा र्वोर्व्यञ्जने' (२।१।६३) दीर्घः । [दीव्यन दिव । दीव्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । अनेन श्यप्र० → य । 'भ्वादे मिनो०' (२११६३) दीर्घः । प्रथमा सि । 'ऋदुदितः' (१४७०) नोऽन्तः । 'दीर्घड्याव०' (१।४।४५) सिलोपः । 'पदस्य' (२११८९) तलोपः । श्यादयः शवोऽपवादाः । पुष्यादि: ६७ । इति चितो दिवादयः ।।छ।। भ्रास-भ्लास-भ्रम-क्रम-क्लम-त्रसि-टि-लषि-यसि-संयसेर्वा ||३/४७३।। [भ्रासभ्लासभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसेः] भ्रासश्च भ्लासश्च भ्रमश्च क्रमश्च क्लमश्च त्रसिश्च त्रुटिश्च लषिश्च यसिश्च संयसिश्च = भ्रासभ्लासभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसि, तस्मात् । [वा] वा प्रथमा सि । [भ्रास्यते, भासते] भासि (८४६) - 'टुभ्रासि दीप्तौ' (८४७) भ्रास् । वर्त० ते । अनेन श्यप्र० । द्वितीये शव । [भ्लास्यते, भ्लासते] भासि (८४६) - टुभ्रासि (८४७) - ‘टुभ्लासृङ् दीप्तौ' (८४८) भ्लास् । वर्त्त० ते । अनेन श्यप्र० । अन्यत्र शव् । [भ्राम्यति, भ्रमति] 'भ्रमूच् अनवस्थाने' (१२३४) भ्रम् । वर्त्त तिव् । अनेन श्यप्र० । 'शम्सप्तकस्य श्ये' (४।२।१११) दीर्घः । 'भ्रमू चलने' (९७०) भ्रम् । वर्त्तः तिव् । शव् । [क्राम्यति, कामति] ‘क्रमू पादविक्षेपे' (३८५) क्रम् । वर्तः तिव् । अनेन श्यप्र० । द्वितीये शव् । ‘क्रमो दीर्घः परस्मै' (४।२।१०९) दीर्घः आ । [क्लाम्यति, क्लामति] 'क्लमूच् ग्लानौ' (१२३७) क्लम् । वर्त० तिव् । अनेन श्यप्र० । 'शमसप्तकस्य श्ये' (४।२।१११) दीर्घः । द्वितीये शव् । 'ष्ठिवू-क्लम्वाऽऽचमः' (४।२।११०) दीर्घः आ । [त्रस्यति, त्रसति] 'त्रसैच् भये (११७१) त्रस् । वर्त्तः तिव् । अनेन श्यप्र० । द्वितीये शव ।। [त्रुट्यति, त्रुटति] चुट (१४३५) - छुट (१४३६) 'त्रुटत् छेदने' (१४३७) त्रुट् । वर्त्तः तिव् । अनेन श्यप्र० । द्वितीये 'तुदादेः शः' (३।४।८१) शप्र० → अ । [लष्यति, लषति] 'लषी कान्तौ' (९२७) लष् । वर्त० तिव् । अनेन श्यप्र० । द्वितीये शव । [यस्यति, यसति] 'यसूच प्रयले' (१२२२) यस् । वर्त्त० तिव । अनेन श्यप्र० । द्वितीये शव । [संयस्यति, संयसति] 'यसूच प्रयत्ने' (१२२२)यस्, समपूर्व० । वर्त्त० तिव । अनेन श्यप्र० । द्वितीये शव । [आयस्यति] यस्, आपूर्व० । वर्तः तिव् । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy