________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
[अकारि कटो भवता] 'डुकृंग् करणे' (८८८) कृ । अद्यतनी त । 'भाव-कर्मणोः ' ( ३।४१६८) ञिच् इ-तलुक् च । ‘नामिनोऽकलि-हले:' ( ४ | ३ |५१) वृ० आर् । 'अड् धातोरादि०' (४।३।२९) अट् ।
[आस्ते] 'आसिक् उपवेशने ' (१११९) आस् । वर्त्त० ते ।
कर्त्तर्यनद्भ्यः शव् || ३ | ४ । ७१ ।।
[कर्त्तर्यनद्भ्यः] कर्तृ सप्तमी ङि । अच्च अच्च अच्च = अदः, न अदः = अनदः । 'अन् स्वरे' ( ३।२।१२९) अन्, अनद्भ्यः, पञ्चमी भ्यस् ।
[शब्] शव् प्रथमा सि ।
[ भवति ] 'भू सत्तायाम्' (१) भू । वर्त्त० तिव् । अनेन शव् । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
तेभ्यः
=
२१७
[चोरयति] 'चुरण् स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० तिव् । अनेन शव् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[पचन्] ‘डुपचष् पाके' (८९२) पच् । पचतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० अत् । अनेन शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । प्रथमा सि । 'ऋदुदित: ' (१।४।७० ) नोऽन्तः । ' दीर्घड्याब्०' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) तलोपः ।
[ पचमानः ] पच् । पचते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) आनश्प्र० आन । अनेन शव् । 'अतो म आने' (४|४|११४) मोऽन्तः ।
[धारयः] ‘धृग् धारणे’ (८८७) धृ । धरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । धारयतीति । साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात्' (५।१।५९) शप्र० अ । अनेन शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । ' एदैतोऽयाय् ' (१।२।२३) अय् ।
[ पारयः ] 'पार कर्मसमाप्तौ' (१९०१) पार् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । पारयतीति । 'साहिसाति-वेद्युदेजि-धारि पारि०' (५।१।५९) शप्र० अ । अनेन शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'नामिनो गुणोऽक्ति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ जनमेजयः ] 'एजृ कम्पने ' (१४८ ) एज् । एजन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । जनमेजयतीति । 'एजे:' ( ५|१|११८) खश्प्र० । अनेन शव् । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् (१।२।२३) अय् । 'खित्यनव्ययाऽरुषो० ' ( ३।२।१११ ) मोऽन्तः ।
[ पच्यते ] पच् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य ।
[अत्ति ] 'अदं भक्षणे' (१०५९) अद् । वर्त्त० तिव् । 'अघोषे प्रथमोऽशिटः ' (११३५०) द० त० [ अदती] अद् । अत्तीति । शतृप्र० अत् । ' अधातूदृदितः ' (२।४।२ ) ङी । इति कितोऽदादयः ||छ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org