SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ।। INNNNNNNNNNNNNNNNNNNNNNNN [आसि भवता] 'आसिक् उपवेशने' (१११९) आस् । अद्यतनी त । अनेन जिच् → इ-तलुक् च । [अशायि भवता] 'शीकू स्वप्ने' (११०५) शी । अद्यतनी त । अनेन जिच् → इ-तलुक् च । 'नामिनोऽकलिहलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । 'अड् धातोरादि०' (४।४।२९) अट् । अकारि कटः] 'इकंग करणे' (८८८) क । अद्यतनी त । अनेन जिच → इ - तलुक च । 'नामिनोऽकलि-हलेः (४।३।५१) वृ० आर् । 'अड् धातोरादि०' (४।४।२९) अट् । [अपाच्योदनश्चैत्रेण] 'डुपचीष् पाके' (८९२) पच् । अद्यतनी त । अनेन त्रिच् → इ - तलुक् च । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अड् धातोरादि०' (४।४।२९) अट् ।।छ।। ___ स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां जिट् वा ।।३।४।६९।। [स्वरग्रहदृशहन्भ्यः] स्वरश्च ग्रहश्च दृशश्च हन् च = स्वरग्रहदृशहन्, तेभ्यः = स्वरग्रहदृशहन्भ्यः , पञ्चमी भ्यस् । [स्यसिजाशीःश्वस्तन्याम्] स्यश्च सिच् च आशीश्च श्वस्तनी च = स्यसिजाशीःश्वस्तनी, सूत्रत्वात् क्लीबत्वं न, तस्याम् । [जिट] जिट् प्रथमा सि । [वा] वा प्रथमा सि ।। [दायिष्यते, दास्यते] 'डुदांग्क दाने' (११३८) दा । भविष्यन्ती स्यते । अनेन जिट् → इ । 'आत ऐः कृञौ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [अदायिष्यत, अदास्यत] दा । क्रियातिपत्तिः स्यत । अनेन जिट् → इ । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । ‘एदैतोऽयाय्' (१।२।२३) आय् । ‘अड् धातोरादि०' (४।४।२९) अट् । [अदायिषाताम्, अदिषाताम्] दा । अद्यतनी आताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन जिट् → इ । 'आत ऐ: कृऔ' (४।३५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । द्वितीये 'इश्च स्था-द:' (४।३।४१) आ० → इ० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । ‘अड् धातोरादि०' (४।४।२९) अट् । [दायिषीष्ट, दासीष्ट दा । आशीः सीष्ट । अनेन जिट् → इ । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [दायिता, दाता] दा । श्वस्तनी ता । अनेन जिट् → इ । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । [शमिष्यते, शामिष्यते, शमयिष्यते] 'शमू उपशमे' (१२३०) शम् । शमिष्यति कश्चित्, स शमिष्यत् अन्येन प्रयुयो)क्ष्यते । 'ञ्णिति' (४।३।५०) वृद्धिः । शमोऽदर्शने' (४।२।२८) हूस्वत्वम् । जि-णमि परे तु णौ वा दीर्घः । भविष्यन्ती स्यते । अनेन जिट् →इ । 'णेरनिटि' (४।३।८३) णिग्लोपः । सर्वत्र ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [अशमिष्यत, अशामिष्यत, अशमयिष्यत शमि पूर्ववत् । क्रिया० स्यत । अनेन जिट् → इ । अग्रे पूर्ववत् । [अशमिषाताम, अशामिषाताम, अशमयिषाताम] शमि पूर्ववत् । अद्यतनी आताम् । 'सिजद्यतन्याम्' (३।४।५३) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy