________________
२१२
'ञ्णिति' (४।३।५०) इति विशेषणार्थः । चकारो 'न कर्मणा जिच्' ( ३।४१८८) इत्यत्र विशेषणार्थः ॥ छ।
दीप-ज-बुध-पूर-ताय-यायो वा || ३ | ४ |६७ ||
[दीपजनबुधिपूरतायप्यायः] दीपश्च जनश्च बुधिश्च पूरश्च तायश्च प्याय् च = दीपजनबुधिपूरतायप्याय्, तस्मात् । [वा ] वा प्रथमा सि ।
[अदीपि, अदीपिष्ट ] 'दीपैचि दीप्तौ ' (१२६६) दीप् । अद्यतनी त । अनेन ञिच्प्र० इतस्य लुक् च । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० । 'अड् धातोरादि०' (४।४।२९) अट् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ अजनि, अजनिष्ट ] 'जनैचि प्रादुर्भावे' (१२६५) जन् । अद्यतनी त । अनेन ञिइ तस्य लुक् च । 'न जन-वधः' (४।३।५४) इति वृद्ध्यभावः । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२।३।१५ ) षत्वम् । तवर्गस्य श्चवर्ग०' (१।३।६०) तस्य टत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अबोधि, अबुद्ध] 'बुधिं ज्ञाने' (१२६२) बुध् । अद्यतनी त । अनेन ञिच् तस्य लुक् च । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । ‘सिजद्यतन्याम्' (३|४|५३) सिच् । 'सिजाशिषावात्मने' ( ४ | ३ | ३५) सिचः कित्त्वाद् गुणो न भवति । ‘धुड्-ह्रस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिच्लोपः । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) तस्य ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ध० द० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अपूरि, अपूरिष्ट] 'पूरैचि आप्यायने' (१२६८) पूर् । अद्यतनी त । अनेन ञिच्प्र० इ-तलुक् च । ‘सिजद्यतन्याम्’ (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अतायि, अतायिष्ट ] 'तायृङ् सन्तान- पालनयोः' (८०६) ताय् । अद्यतनी त । अनेन ञिच्प्र० इ तलुक् च । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अप्यायि, अप्यायिष्ट] स्फायैङ् (८०४) - 'ओप्यायैङ् वृद्धी' (८०५) प्याय् । अद्यतनी त । अनेन ञिच्प्र० इ - तलुक् च । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । ‘तवर्गस्य श्चवर्ग०' (१|३|६०) त० → ट० ।
Jain Education International
[अदीपिषाताम्] दीप् । अद्यतनी आताम् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । ‘नाम्यन्तस्था०' (२।३।१५) पत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अदीपि भवता] दीप् । अद्यतनी त । 'भावकर्मणोः ' ( ३।४।६८) ञिच् इ तलुक् च ।
बुधीति इकारो दैवादिकस्यात्मनेपदिनः परिग्रहार्थः तेन [ अबोधिष्ट ] 'बुधृग् बोधने' (९१२) बुध् । अद्यतनी त । ‘सिजद्यतन्याम्’ (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) तस्य टत्त्वम् । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ओ । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।।छ।।
भाव - कर्मणोः || ३ | ४ |६८ ।।
[ भावकर्मणोः ] भावश्च कर्म च = भावकर्मणी, तयोः =
भावकर्मणोः, सप्तमी ओस् ।
For Private & Personal Use Only
www.jainelibrary.org