SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । देरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । व्यत्यपुक्षत वि-अति 'पुषंच पुष्टौ' (११७५) पुप् । अद्यतनी त । 'ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक्' (३।४।५५) सप० । 'प-ढोः कस्सि' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) प०. क-पसंयोगे क्ष० । ‘अड् धातोरादि०' (४।४।२९) अट ।।छ।। ऋदिच्छ्वि-स्तम्भू-मुचू-म्लुचू-गुचू-ग्लुचू-ग्लुञ्च-ज्रो वा ।।३।४।६५।। [ऋदिच्छ्विस्तम्भूमुचूम्लुचूगुचूग्लुचूग्लुपेजः] ऊ ऋत् इत् अनुवन्धो येषां ते = ऋदितः, ऋदितश्च श्विश्च स्तम्भूश्च मुचूश्च म्लुचूश्च गुचूश्च ग्लुचूश्च ग्लुशूश्च जृश्च = ऋदिच्छ्विस्तम्भूमुचुम्लुचूग्रुचूग्लुचूग्लुशूज़. तस्मात् । [वा] वा प्रथमा सि । [अरुधत्, अरौत्सीत् 'रुधुंपी आवरणे' (१४७३) रुध् । अद्यतनी दि → त् । प्रथमे अनेन अड्य० सर्वत्र । अन्यत्र 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स: सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः औ । 'अघोपे प्रथमोऽशिटः' (१३५०) ध० → त० । [अभिदत्, अभैत्सीत्] 'भिपी विदारणे' (१४७७) भिद् । अद्यतनी दि → त् । प्रथमे अनेन अड्प० । अन्यत्र 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४३।६५) ईत् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः ऐ । 'अघोपे प्रथमोऽशिट:' (११३५०) द० → त० । [अश्वत्, अश्वयीत्, अशिश्चियत्] 'ट्वोश्चि गति-वृद्धयोः' (९९७) श्चि । अद्यतनी दि → त् । प्रथमे अनेन अड्य० । 'श्वयत्यसू-वच०' (४।३।१०३) श्वादेशः । अग्रेतने 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि स्योः' (४।३।६५) ईत् । इट् । ‘इट ईति' (४।३७१) सिच्लोपः । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) इति वृद्धिप्राप्ता 'न श्वि-जागृशस-क्षण-म्येदितः' (४।३।४९) इत्यनेन निषिध्यते । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय्' (१।२।२३) अय् । तृतीये 'ट्धे-श्वेर्वा' (३।४।५९) इप्र० → अ । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्वित्वम् । 'व्यानस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'संयोगात्' (२।१।५२) इय् । [अस्तभत्, अस्तम्भीत् 'स्तम्भू स्तम्भे' (१९८५) स्तम्भ, स्तम्भू इति सौत्रो धातुः । अद्यतनी दि → त् । अनेन अड्य० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । द्वितीये ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-प्योः' (४।३।६५) ईत् । इट् । ‘इट ईति' (४।३।७१) सिच्लोपः । 'समानानां०' (१।२।१) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् । [अमुचत्, अम्रोचीत्] वशू (१०६) - चशू (१०७) - तमू (१०८) - त्वशू (१०९) - मशू (११०) - मुशू (१११) - मुशू (११२) - ‘मुचू गतौ' (११३) मुच् । अद्यतनी दि → त् । अनेन अङ्म० । द्वितीये 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत । इट । 'इट ईति' (४।३७१) सिचलोपः । 'समानानां०' (१।२।१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अड् धातोरादि०' (४।४।२९) अट् । [अम्लुचत्, अम्लोचीत् ‘म्लुचू गतौ' (११४) म्लुच । अद्यतनी दि→त् । अनेन अड्य० । द्वितीये 'सिजद्यतन्याम' (३।४.४५३.) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । इट् । ‘इट ईति' (४।३७१) सिच्लोपः । 'समानानां०' (१।२।१) दीर्घः । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अडू धातोरादि०' (४।४।२९) अट । Pऋत् इत् अनुवन्धो यस्य सः = ऋदित्, ऋदिच्च श्विश्व.... । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy