SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [असरिसारीत्] 'सुं गतौ' (२५) सृ । कुटिलं असरत् । 'गत्यर्थात् कुटिले' (३।४।११) यङ्म०→य । 'सन्यङश्च' (४।१३) द्वित्वम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'रि-रौ च लुपि' (४।१।५६) “रि" आगमः । अद्यतनी त् । [आरारीत्] ' प्रापणे च' (२६) ऋ । 'ऋक् गतौ' (११३५) ऋ । भृशं पुनः पुनर्वा ऋच्छति-इयर्त्ति । 'अट्यर्तिसूत्रि-मूत्रि-सूच्यशूर्णोः' (३।४।१०) यङ्प० । 'बहुलं लुप्' (३।४।१४) यङ्लोपः । ‘सन्-यडश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'रि-रौ च लुपि' (४।१५६) "र" आगमः । अद्यतनी दि० → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । ‘इट ईति' (४।३।७१) सिचलोपः । 'सिचि परस्मै०' (४।३।४४) वृद्धि: आर् । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः । 'समानानां०' (१।२।१) दीर्घः । ||छ।। ह्वा-लिप-सिचः ।।३।४।६२ ।। [हालिप्सिचः] ह्राश्च लिप् च सिच् च = हालिप्सिच्, तस्मात् । [आहृत्] 'हेंग स्पर्द्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) हा, आड्यूर्व० । अद्यतनी दि → त् । अनेन अप्र० → अ । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । [अलिपत्] 'लिपीत् उपदेहे' (१३२४) लिप् । अद्यतनी दि → त् । अनेन अप्र० → अ । 'अड् धातोरादि०' (४।४।२९) अट् । [असिचत्] 'षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सिच् । अद्यतनी दि → त् । अनेन अङ्प० → अ । 'अड् धातोरादि०' (४।४।२९) अट् ।।छ।। वाऽऽत्मने ।।३।४।६३।। [वा] वा प्रथमा सि । [आत्मने] आत्मार्थं पदं = आत्मनेपदम्, तस्मिन् । 'ते लुग्वा' (३।२।१०८) पदलोपः । सूत्रत्वात् डिलोपः । 'पराऽऽत्मभ्यां डे:' (३।२।१७) इत्यनेन चतुर्थीअलुप्समासः । [आहत, आह्वास्त] ‘हॅग् स्पर्दा-शब्दयोः' (९९४) हे । ‘आत् सन्ध्यक्षरस्य' (४।२।१) हा, आड्पूर्व० । अद्यतनी त । प्रथमे अनेन अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलोपः । द्वितीये 'सिजद्यतन्याम्' (३।४।५३) सिच् । [अलिपत, अलिप्त लिप् । अद्यतनी त । प्रथमे अनेन अङ्म० → अ । द्वितीये 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३७०) सिच्लोपः । [असिचत, असिक्त] सिच् । अद्यतनी त । प्रथमे अनेन अम० → अ । द्वितीये 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३७०) सिच्लोपः । 'च-जः क-गम्' (२।१।८६) च० → क० ॥छ।। लृदिद्-धुतादि-पुष्यादे: परस्मै ।।३।४।६४।। लदिद धुतादिपुष्यादे:]+ लृत इत् अनुबन्धो येषां ते = लुदितः । धुत आदिर्येषां ते = धुतादयः । आगन्तुना अकारेण म मध्यमवृत्तौ - भृशं पुनः पुनर्वा सरति । 'व्यञ्जना०' (३।४।९) यङ्प्र० । P. + लुत् इत् अनुवन्धो यस्य सः = लृदित्, द्युत् आदिर्यस्य सः = धुतादिः, पुष्य आदिर्यस्य सः = पुष्यादिः, लुदिच्च धुतादिश्च पुष्यादिश्च = लृदिद्धुतादिपुष्यादि, तस्मात् । Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy