________________
२०४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
नाऽसत्त्वाऽऽ श्लेषे ||३|४|५७||
[न] न प्रथमा सि ।
[असत्त्वाऽऽश्लेषे] सत्त्वस्य प्राणिन आश्लेषः = सत्त्वाश्लेषः, न सत्त्वाश्लेषः = असत्त्वाश्लेषः । 'नञत्' (३।२।१२५) न० अ० तस्मिन् ।
[उपाश्लिषत् जतु च काष्ठं च] उप-आड्यूर्व०, 'श्लिषंच् आलिङ्गने' (१२१०) श्लिष् । अद्यतनी दि त् । 'लृदिद् द्युतादि- पुष्यादेः परस्मै' ( ३।४।६४) अप्र० । जतु प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । काष्ठ प्रथमा सि ।
[समाश्लिषत् गुरुकुलम्] सम्- आड्यूर्व०, श्लिष् । अद्यतनी दि→ त् । लृदिद्-द्युतादि०' ( ३।४।६४) अप्र० । [ व्यत्यश्लिक्षन्त मिथुनानि] वि-अति श्लिष् । अद्यतनी अन्त । श्लिष:' ( ३|४|५६) सक् स । 'ष - ढोः कस्सि' (२।१।६२ ) ष० क० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । 'स्वरेऽतः' (४।३।७५) अलोपः । मिथुन प्रथमा जस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । नि दीर्घः' (१।४।८५) दीर्घः ||छ ।
णि श्रि-दु-सु-कमः कर्त्तरि ङः || ३ | ४|५८ ||
[णिश्रिदुसुकमः ] णिश्च श्रिश्च द्रुश्च सुश्च कम् च = श्रिकम् तस्मात् ।
[कर्त्तरि] कर्तृ सप्तमी ङि । 'अ च ' (१।४।३९ ) अर् ।
[ङ ] ङ प्रथमा सि ।
[अचीकरत्] 'डुकृंग् करणे' (८८८) कृ । कुर्वन्तं प्रायुक्त । प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् | अद्यतनी दित् । अनेन डप्र० अ । 'द्विर्धातुः परोक्षा ङे० ' (४।१।१) द्वित्वम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । ' ह्रस्वः' (४|१|३९) ह्रस्वः । 'क-डश्च- ञ्' (४।१।४६) क० च० । 'असमानलोपे सन्वल्लघुनि ङे (४|१ |६३) इ । ' उपान्त्यस्याऽसमानलोपि - शास्वृदितो डे' (४।२।३५) ह्रस्वत् । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ' णेरनिटि' (४।३।८३) णिग्लोपः ।
[अचूचुरत्] 'चुरण् स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अद्यतनी दित् । अनेन प्र० अ । द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'असमानलोपे० ' ( ४।१।६३ ) ह्रस्वः । 'लघोर्दीर्घो ऽस्वरादेः' (४|१ |६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिच्लोपः ।
[औजढत्] ऊढ । ऊढमाचष्टे । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० इ । ' त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । अद्यतनी दि→ त् । अनेन ङप्र० अ । द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्जः ' (४।१।४०) ह० ज० । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः औ । 'णेरनिटि' (४।३।८३) णिच्लोपः ।
[अचीकमत्] 'कमूङ् कान्तौ ' ( ७८९ ) कम् । 'कमेर्णिङ्' ( ३।४।२) णिप्र० इ । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अद्यतनी दित् । अनेन ङ० अ । द्वित्वम् । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलोपः । ' ह्रस्वः '
Jain Education International
P. कुर्वन्तं प्र० । णिग्प्र० । अद्यत० दि । 'अड् धातोरादि०' (४।४।२९) अट् । अनेन ङ । 'आर्थोऽश एकस्वरः' (४।१।२) "कृ"द्वि० । .. ऋतोऽत्' (४।१।३८) कृ० क० । 'क-डञ्च ञ्' (४|१|४६) क० च० । 'असमानलोपे सन्वल्लघुनि ङे (४।१।६३ ) इ । ‘लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृ० आर् । 'उपान्त्यस्याऽसमानलोपि ० ' ( ४।२।३५) ह्रस्वः । 'णेरनिटि' (४।३।८३) णिग्लोपः ।
For Private & Personal Use Only
www.jainelibrary.org