SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पाद: ।। Prash. [आनई] 'ऋछत् इन्द्रियप्रलय-मूर्तिभावयोः' (१३४२) ऋछ । परोक्षा णव् । 'द्विर्धातुः परोक्षा डे०' (४1919) द्वित्वम् । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'अनातो नश्चान्त ऋदाद्यशौ संयोगस्य' (४।१।६९) अस्य आ-नकारागमश्च । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [प्रोणुनाव प्र 'ऊर्तुगक आच्छादने' (११२३) ऊर्गु । परोक्षा णव् । 'लोकात्' (१।१।३) "ऊर्' पाठउ विश्लेपियइ । 'निमित्ताभावे०' (न्या०सं० वक्षस्कार (१)/सूत्र (२९) नु । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "नु"द्वित्वम् । ‘रपृवणांन्ना ण०' (२।३।६३) न० → ण० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । ओदौतोऽवाव' (१।२।२४) आव् । 'अवर्णस्येवर्णादिनैदोदरल' (११२१६) ओ ।।छ।। जाग्रुष-समिन्धेर्नवा ||३४|४९।। [जाग्रुषसमिन्धेः] + जागा च उपश्च समिन्धिश्च, तत्, तस्मात् । [जागरांचकार, जागरांबभूव, जागरामास] 'जागृक निद्राक्षये' (१०९३) जागृ । परोक्षा णव् । अनेन आम् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [जजागार जागृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादलुंक' (४११४४) अनादिव्यञ्जनलोप: । 'हस्वः' (४।१।३९) ह्रस्वः । 'जागुर्जि-णवि' (४।३।५२) वृद्धिः आर् । [ओषांचकार] 'उपू दाहे' (५२९) उप । परोक्षा णव् । अनेन आम् । [उवोष] उप । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) पलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'पूर्वस्याऽस्वे स्वरे योरियुव' (४।१।३७) उव् । [समिन्धांचक्रे] 'जिइन्धैपि दीप्तौ' (१४९८) इन्ध, सम्पूर्व० । परोक्षा ए । अनेन आम् । अस्य धातोः आमि परोक्षाकार्यं नास्ति अतो न नकारलोपः । [समीधे] सम्-इन्ध् । परोक्षा ए । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) न्ध लोपः । 'समानानां०' (१।२।१) दीर्घः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । [प्रेन्धांचक्रे] प्र-इन्ध् । परोक्षा ए । 'गुरुनाम्यादेरनृच्छूर्णोः' (३।४।४८) आम् । [इन्धांचक्रे, ईधे] इन्ध । परोक्षा ए । मतान्तरे वा आम् ।।छ।। भी-ही-भृ-होस्तिव्वत् ।।३।४।५०।। [भीहीभृहोः] भीश्च हीश्च भृश्च ह च (?) (हुश्च) = तत्, तस्मात् । [तिव्वत्] तिव् । तिविव = तिव्वत् । ‘स्यादेरिवे' (७।१।५२) वत्प० । प्रथमा सि । [बिभयांचकार, बिभयांबभूव, बिभयामास] 'जिभीक् भये' (११३२) भी । परोक्षा णव् । अनेन आम् । 'हवः शिति' (४।१।१२) द्वित्वम् । 'हस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) भ० → व० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् । सर्वत्र परतः कृभ्वस्तयः प्रयोज्याः । मध्यमवृत्तौ- ऋछ । परोक्षा णव् । 'स्कृच्छ्रतोऽकि०' (४।३।८) गु० अर् । द्विः । 'अनातो नश्चान्त०' (४।१।६९) आ-नकारागमश्च । P + जागृश्च । Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy