________________
श्रीसिद्धहेमचन्द्रशनानुशासने अज्ञातकर्तृका दुण्ढिका ।
[आसांचके. आसांबभूव, आसामास 'आसिक उपवेशने' (१११९) आस् । परोक्षा ए । अनेन आम् ।
[कासांचक्रे, कासांवभूव, कासामास] 'कासृङ शब्दकुत्सायाम्' (८४५) कास । परोक्षा ए । अनेन सर्वत्र परोक्षाग्थाने आम ।
___ आमन्ताच्च धातोः कृण्वस्तयः परोक्षान्ता मन्यन्ते, मूलधातुवत् कृगः परतः परस्मैपदं आत्मनेपदं वा ग्यात, कृभ्वग्निभ्यां पु(प)रतः परस्मैपदमेव ।।छ।।
गुरुनाम्यादेरनृच्छ्रोः ।।३।४।४८।। [गुरुनाम्यादेः] गुरुश्चासौ नामी च = गुरुनामी. गुरुनामी आदिर्यस्याऽसौ गुरुनाम्यादिप्तस्मात् । [अनृच्छ्रों :15 ऋच्छुश्च ऊर्जुश्च - ऋच्छृणु, न ऋच्छृणु = अनृच्छृणु. तस्मात् । [ईहांचक्रे, ईहांबभूव, ईहामास] 'ईहि चेष्टायाम्' (८५७) ईह । परोक्षा ए । अनेन आमादेशः ।
[उञ्छांचकार] 'उछुत् उञ्छे' (१३४६) उछ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । परीक्षा णव । अनेन आम् ।
[व्युठांचकार] 'उछत् विवासे' (१३४४) उछ्, विपूर्व० । परीक्षा णव् । अनेन आम् ।
[उब्जांचकार] 'उब्जत् आर्जवे' (१३४८) उब्ज् । परोक्षा णव् । अनेन आम् ।
[इयेप] ‘इपत् इच्छायाम्' (१४१९) इग् । परोक्षा णव । द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यअनस्याउनादेलक' (४।१।४४) अनादिव्यअनलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'पूर्वस्याऽस्वे स्वरे योरियुव' (४।१३७) इ० → इय० ।
[आनर्च] 'अर्च पूजायाम्' (१०४) अर्छ । परीक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । व्यञ्जनस्याऽनादेर्लुक' (४/११४४) लोपः । 'अनातो नश्चान्त ऋदाद्यशौ-संयोगस्य' (४।१।६९) अस्य आ-नकारागमश्च ।
निनाय 'णींग प्रापणे' (८८४) णी । पाठे धात्वादेर्णो नः' (२।३।९७) नी । परोक्षा णव । 'द्विर्धातुः परोक्षा३०' (४।११) द्वित्वम् । 'हूस्वः' (४।११३९) ह्रस्वः । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धि: ऐ । 'एदेतोऽयाय' (११२।२३) आय ।
[ईडाञ्चके] 'ईडिक स्तुतौ' (१११४) ईड् । परोक्षा ए । 'गुरुनाम्यादेरनृच्छ्रों :' (३।४।४८) आम् ।
[अयांचक्रे, अयांबभूव, अयामास] ‘अयि गतौ' (७९०) अय् । परीक्षा ए । 'दया ऽया-ऽऽस्-कासः' (३।४१४७) आम् । चक्र-वभूव-आस ।
[ईषतुः, ईषुः] ‘इपत् इच्छायाम्' (१४१९) इप् । परीक्षा अतुस्-उस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनम्याउनादेलुक' (४।१।४४) पलोपः । 'समानानां०' (१२११) दीर्घः । अत्र सन्निपातलक्षणो विधिरनिमित्तं तद्विघातम्य (न्या०स० वक्षस्कार (१)/सूत्र (१९)) इति न भवति । यो यमाश्रित्य समुत्पद्यते सः सन्निपातः ।
परोक्षाया विघातं कर्तुं न निमित्तं न कारणं इति भावार्थः ।
P.卐 ऋच् च ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org