________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ।।
१९७
कृभ्वस्तिविशेषणमिदम् । [चकासांचकार, चकासांबभूव, चकासामास] 'चकासृक् दीप्तौ' (१०९४) चकास् । परोक्षा णव् । अनेन आम्, अनुपश्चात् कृभ्वस्ति । 'डुकुंग करणे' (८८८) कृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'ऋतोऽत्' (४।१।३८) कृ० → क० । ‘क-डश्च-ञ्' (४।१।४६) क० → च० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धि: आर् ।
_ 'भू सत्तायाम्' (१) भू । परोक्षा णव् → अ । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'भू-स्वपोरदुतौ' (४।१।७०) उ०→अ० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव् । 'भुवो वः परोक्षा-ऽद्यतन्योः ' (४।२।४३) आ० → ऊ ।
'असक् भवे' (भुवि)' (११०२) अस् । परोक्षा णव् । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) आ ।
[चुलुम्पांचकार, चुलुम्पांबभूव, चुलुम्पामास] 'चुलुम्प विनाशे' (२०५०) चुलुम्प, सौत्रो धातुः । परोक्षा णव । अनेन आम् ।
[लोलूयांचक्रे, लोलूयांबभूव, लोलूयामास] 'लूग्श् छेदने' (१५१९) लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० → य । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । परोक्षा णव् । अनेन आम् ।
[पपाच] 'डुपची पाके' (८९२) पच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) चलोपः । ‘णिति' (४।३।५०) उपान्त्यवृद्धिः ।
[गवांचकार, गवांबभूव, गवामास] गो । गौरिवाऽऽचचार । 'कर्तुः क्विप्, गल्भ-क्लीब-होडात्तु डित्' (३।४।२५) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । परोक्षा णव् । मतान्तरे आम् ।
[स्वांचकार, स्वांबभूव, स्वामास] स्व इवाऽऽचचार । 'कर्तुः क्विपू०' (३।४।२५) क्विपप्र० । 'अप्रयोगीत' (१।१।३७) क्विप्लोपः । परोक्षा णव् । मतान्तरे आम् ।
[उक्षां प्रचक्रुर्नगरस्य मार्गान्] ‘उक्ष सेचने' (५६६) उफ् । परोक्षा णव् । 'गुरुनाम्यादेरनृच्छूर्णोः' (३।४।४८) आम् । प्र 'डुबंग करणे' (८८८) कृ । परोक्षा उस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-ङश्च-ञ्' (४।१।४६) क० → च० । 'इवर्णादे० ' (१।२।२१) र० । नगर षष्ठी ङस् । मार्ग द्वितीया शस् ।।छ।।
दया-5या-55स-कासः ||३४|४७॥
[दयाऽयाऽऽस्कासः] दयश्च अयश्च आस् च कास् च = दयाऽयाऽऽस्कास्, तस्मात् ।
[दयांचक्रे, दयांबभूव, दयामास] 'दयि दान-गति-हिंसा-दहनेषु च' (७९९) दय् । परोक्षा ए । अनेन ए० → आम्, आमन्ताच्च धातोः परे कृभ्वस्तयः प्रयुज्यन्ते । 'डुइंग् करणे' (८८८) कृ । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे० ' (४|११) द्वित्वम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'इवर्णादे० ' (१।२।२१) र० । 'आमः कृगः' (३।३।७५) इत्यात्मनेपदम् । आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्त्तर्यात्मनेपदं स्यात्, बभूवआस पूर्ववत् ।
[पलायांचक्रे, पलायांबभूव, पलायामास] परा 'अयि गतौ' (७९०) अय् । परोक्षा ए । अनेन आम् । 'उपसर्गस्याऽयौ' (२।३१००) र० → ल० ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org