________________
१९६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
सत्या-ऽर्थ-वेदस्याः ।।३।४।४४।। [सत्यार्थवेदस्य] सत्यश्च अर्थश्च वेदश्च = सत्यार्थवेदम, तस्य ।
[आः] आ प्रथमा सि । 'सो रुः' (२।१७२) स०
→ र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ।
[सत्यापयति सत्य । सत्यमाचष्टे । अनेन (३।४।४२) सूत्रेण णिचप्र० - आकारश्च । अत्र सर्वत्र 'त्रन्त्यस्वरादेः' (७।४।४३) इत्याकारस्य लुग् न भवति विधानसामर्थ्यात् । 'अर्त्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः ।
[अर्थापयति अर्थ । अर्थमाचष्टे । अनेन (३।४।४२) सूत्रेण णिचप्र० - आकारश्च । 'अर्ति-री-व्ली०' (४।२।२१)' पोऽन्तः ।
वेदापयति वेद । वेदमाचष्टे । अनेन (३।४।४२) सूत्रेण णिच्प्र०-आकारश्च । 'अर्ति-री-क्ली०' (४।२।२१) पोऽन्तः ।।छ।।
श्वेताश्वा-ऽश्वतर-गालोडिता-55हरकस्याऽश्व-तरेत-कलुक ।।३।४।४५।।
[श्वेताश्वाऽश्वतरगालोडिताऽऽहरकस्य] श्वेताश्वश्च अश्वतरश्च गालोडितश्च आह्वरकश्च = श्वेताश्वाऽश्वतरगालोडिताऽऽह्वरकम्, तस्य ।
[अश्वतरेतकलुक्] अश्वश्च तरश्च इतश्च कश्च = अश्वतरेतकाः, अश्वतरेतकानां लुक् = अश्वतरेतकलुक् । लुग) वचनम् ।
[श्वेतयति] श्वेताश्वमाचष्टे करोति वा, श्वेताश्वेनातिक्रामतीति वा । अनेन (३।४।४२) सूत्रेण प्पिचप्र० - अश्वलुक ।
[अश्वयति + अश्वतरमाचष्टे । अनेन (३।४।४२) सूत्रेण णिच्प्र० - तरलुक् ।
[गालोडयति गालोडितमाचष्टे । अनेन (३।४।४२) सूत्रेण णिच्प्र० - इतलुक् । [आहरयति] आह्वरकमाचष्टे । अनेन (३।४।४२) सूत्रेण णिच्प्र० - कलुक् ।।छ।।
धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् ।।३।४।४६।। [धातोरनेकस्वरादाम] धातु पश्चमी उसि । एकः स्वरो यस्याऽसौ एकस्वरः, न एकस्वरः = अनेकस्वरः । 'अन् स्वरे' (३।२।१२९) अन्, तस्मात् । आम् प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः ।
[परोक्षायाः] परोक्षा षष्ठी इस् । ‘आपो डितां यै-यास्०' (१।४।१७) यास् । [कृभ्वस्ति कृश्च भूश्च अस्तिश्च = कृभ्वस्ति । प्रथमा सि । 'अनतो लुप' (१।४।५९) सिलोपः । [चानु] च प्रथमा सि । अनु प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । [तदन्तम्]* सा-परोक्षा अन्ते यस्य तत्तदन्तम् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।
P... अश्वतरेतकम्, अश्वतरेतकस्य लुक् = अश्वतरेतकलुक् । प्रथमा सि । P. + अश्वतरमाचष्टे करोति वा, अश्वतरेणातिक्रामतीति वा । p. * सैव ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org