________________
अथ तृतीयाध्यायस्य चतुर्थः पाद: ।।
१९५
[वीरयति वीर । वीर उत्सहते । [उत्कूलयति] उत्-कूल । कूलमुल्लङ्घयति । [प्रतिकूलयति] प्रति-कूल । कूलं प्रतीपं गच्छति । [अनुकूलयति] अनु-कूल । कूलमनुगच्छति । [अवलोष्टयति] अव-लोष्ट । लोष्टानवमर्दयति । [पुत्रयति] पुत्र । पुत्रं सूते । अनेन सर्वत्र णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । [आख्यानम] आख्यान । आख्यानमाचष्टे । [नलोपाख्यानम्] नलोपाख्यानमाचष्टे । [कंसवधम्] कंसवध । कंसवधमाचष्टे । [सीताहरणम्] सीताहरण । सीताहरणमाचष्टे । [रामप्रव्रजनम्] रामप्रव्रजन । रामप्रव्रजनमाचष्टे । [राजागमनम्] राजागमन । राजागमनमाचष्टे । [मृगरमणम्] मृगरमण । मृगरमणमाचष्टे ।
[आरात्रिविवासम] आरात्रिविवास । आरात्रिविवासमाचष्टे । बहुलवचनात् सर्वत्र अनेन णिचप्र० न भवति । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः ।
यत्र पुनरेकोपसर्गविशिष्टा क्रिया प्रत्ययार्थस्तत्र शब्दशक्तिस्वाभाव्यादेक एवोपसर्गार्थः प्रत्ययार्थेऽन्तर्भवति, द्वितीयस्तूपसर्गेणैव प्रत्याय्यते ।
प्रत्याय्यते-ज्ञाप्यते इत्यर्थः ।
[सम्भाण्डयते सम-भाण्ड | भाण्डं समाचिनोति । 'भाण्डात् समाचितौ' (३।४।४०) णिप्र० → इ । 'त्रन्त्यस्वरादे:' (७।४।४३) अन्त्यस्वरादिलोपः ॥छ।।
व्रताद् भुजि-तनिवृत्त्योः ।।३।४।४३।। [व्रतात् व्रत पञ्चमी ङसि । [भुजितन्निवृत्त्योः तस्य = भुजेर्निवृत्तिः = तन्निवृत्तिः, भुजिश्च तन्निवृत्तिश्च = भुजितन्निवृत्ती, तयोः = भुजितन्निवृत्त्योः ।
व्रतं शास्त्रविहितो नियमः । [पयो व्रतयति पयस् द्वितीया अम् । पय एव मया भोक्तव्यमिति व्रतं करोति, गृह्णाति वा । अनेन णिच्प्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[सावद्यान्नं व्रतयति सावद्यान्न द्वितीया अम् । सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति, गृणाति वा । शेष पूर्ववत् ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org