________________
१९४
[उत्तृणयति ] उत्-तृण । तृणान्युत्प्लुत्य शातयति ।
[ अतिहस्तयति] हस्तिनातिक्रामति ।
[ अत्यश्वयति ] अश्व । अश्वेनातिक्रामति ।
[संवर्मयति] वर्मन्-सम्पूर्व० । वर्मणा संनह्यति ।
[उपवीणयति] उप-वीणा । वीणया उपयाति ( गायति ) ।
[ अभिषेणयति ] अभि-सेना । सेनया अभियाति । 'स्था-सेनि - सेध - सिच- सां द्वित्वेऽपि ' (२।३।४०) पत्वम् ।
[ अवचूर्णयति ] अव-चूर्ण । चूर्णैरवध्वंसयति अवकिरति वा ।
[ अनुतूलयति] अनु-तूल । तूलैरनुकुष्णाति ।
[अवतूलयति] तूलैरवकुष्णाति अनुगृह्णाति वा । अनेन सर्वत्र णिच्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः ।
[वासयति] वासी । वास्या छिनत्ति ।
[ परशयति ] परशु | परशुना छिनत्ति ।
[ असयति] असि । असिना छिनत्ति । [परिवासयति] परि-वासी । वास्या परिछिनत्ति । [उद्वासयति] उत्-वासस् । वाससा उन्मोचयति । [ उपश्लोकयति ] उप-श्लोक । श्लोकैरुपस्तौति ।
[ अपस्तयति ] अप- हस्त । हस्तेनापक्षिपति ।
[ समश्वयति ] सम्- अश्व । अश्वेन संयुनक्ति । [ गन्धयति ] गन्ध । गन्धेनार्चयति ।
[पुष्पयति] पुष्प । पुष्पैरर्चयति । [बलयति ] बल । बलेन सहते । [शीलयति ] शील । शीलेनाचरति ।
[सामयति ] स (सा) मन् । साम आचरति ।
[ सान्त्वयति ] सान्त्व । सान्त्वमाचरति ।
[उपच्छन्दयति] उप-छन्दस् । छन्दसा उपचरति उपमन्त्रयते वा ।
[संपाशयति] सम्-पाशा(श) । पाशेन संयच्छति ।
[विपाशयति ] विपाश । पाशं पाशाद्वा विमोचयति ।
[शूरयति] शूर । शूरो भवति ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org