________________
२००
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
बिभाय] 'जिभीक भये' (११३२) भी । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्वित्वम् । 'हस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'नामिनोऽकलि-हले:' (४१३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
[जिहूयांचकार, जिहाय] 'ह्रींक लज्जायाम्' (११३३) ही । परोक्षा णव् । अनेन आम् । 'हवः शिति' (४।१।१२) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१२।२३) अय् | द्वितीये 'नामिनोऽकलि-हलेः' (४१३५१) वृ० ऐ । ‘एदैतोऽयाय्' (१।२।२३) आय् ।
[बिभरांचकार, बभार 'टूइभंगक पोषणे च' (११४०) भ । परोक्षा णव । अनेन आम । 'हवः शिति' (४।१1१२) द्वित्वम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'द्वितीय तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'पृ-भृ-मा-हाडमिः ' (४।१५८) इ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । द्वितीये 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् |
[जुहवांचकार, जुहाव] 'हुंक् दाना-5दनयोः' (११३०) हु । परोक्षा णव् । अनेन आम् सर्वत्र । 'हकः शिति' (४।१।१२) द्वित्वम् । 'ग-होर्जः' (४।१।४०) हु० → जु० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । द्वितीये 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव' (१।२।२४) आव् ।
[जुहवांचक्रे, जुहुवे] 'हुंक दाना-ऽदनयोः' (११३०) हु । परोक्षा ए । अनेन आम् । द्वित्वम् । 'ग-होर्जः' (४।१।४०) ह०→ज० । 'नामिनो गुणोऽक्ङिति' (४१३१) गु० ओ । 'ओदौतोऽवाव' (११२।२४) अव । द्वितीये 'धातोरिवर्णो०' (२।१५०) उव । भावे कर्मणि वा अत्र 'क्यः शिति' (३।४।७०) इति क्यो न भवति-, सामान्योक्तेऽपि क्यस्य भावे कर्मणि च विधानात् शित्प्रत्ययोऽपि भावकर्मविहितो गृहाते, अत्र नु(तु) तिव्वदित्युक्तम्, तिव् च भावे कर्मणि न भवति ।।छ।।
वेत्तेः कित् ।।३।४।५१।। [वत्तेः] वेत्ति पञ्चमी सि ।
[कित् क् इत् अनुबन्धो यस्याऽसौ कित् । प्रथमा सि ।
[विदांचकार, विदांबभूव, विदामास] 'विदक् ज्ञाने' (१०९९) विद् । परोक्षा णव् । अनेन आम् परतः कृभ्वस्तयः प्रयुज्यन्ते । कित्त्वाद् गुणो न भवति ।
[विवेद] विद् । परोक्षा णव् → अ । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) दलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
तिनिर्देश अदादिकपरिग्रहार्थः ॥छ।।
पञ्चम्याः कृग् ||३।४।५२।।
[पञ्चम्याः] पञ्चमी' पञ्चमी डसि ।
[कृग] कृग प्रथमा सि ।।
[विदांकरोतु] 'विदक ज्ञाने' (१०९९) विद् । पञ्चमी तुव् । अनेन तु
→ आम् । 'डुकंग करणे' (८८८) कृ ।
P. ॥ षष्ठी ङस् ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org