SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ = उत्परिव्यसनम् । 'ते लुग्वा' ( ३।२।१०८) असन एकलुक्, तस्मिन् । [उत्पुच्छयते] उत्-पुच्छ । पुच्छमुदस्यति । [ परिपृच्छयते ] परि-पुच्छ । पुच्छं पर्यस्यति । [विपुच्छयते] वि-पुच्छ । पुच्छं व्यस्यति । [पुच्छयते] पुच्छमस्यति । सर्वत्र अनेन णिङ्प्र० इ । ' त्रन्त्यस्वरादेः' (७।४।४३) अलोपः ||छ || Jain Education International भाण्डात् समाचित || ३ | ४ |४०|| [भाण्डात्] भाण्ड पञ्चमी इसि । [समाचितौ ] समाचयनं समाचितिः, तस्याम् । समाचयनं च समा परिणा च द्योत्यते । [ संभाण्डयते ] सम्भाण्ड । भाण्डानि समाचिनोति, राशीं करोतीत्यर्थः । [परिभाण्डयते] भाण्डानि परिचिनोति । अनेन णिङ्प्र० इ । ' त्रन्त्यस्वरादे:' ( ७।४।४३) अलोपः ॥ छ || चीवरात् परिधार्जने || ३ | ४ |४१ || [चीवरात्] चीवर पञ्चमी इसि । [ परिधार्जने] परिधा च अर्जनं च = परिधार्जनम्, तस्मिन् । [परिचीवरयते ] चीवर | चीवरं परिधत्ते । अनेन णिप्र० इ । समाच्छादनमपि परिधानम् । [ संचीवरयते] सम्-चीवर । चीवरं समाच्छादयति । [चीवरयते] चीवरमर्जयति । अनेन णिड्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । [ संचीवरयते] चीवरं संमार्जयति । मतान्तरे णिङ्प्र० । वर्त्त० तिव्- (ते) । गु० अय् ॥छ || णिज्बहुलं नाम्नः कृगादिषु || ३ | ४ |४२ || [णिज्] णिज् (च्) प्रथमा सि । [बहुलम्] बहु लातीति । 'आतो डोऽह्वा-वा-मः' (५।१।७६) डप्र० अ । 'डित्यन्त्यस्वरादेः' (२1१1११४) आलोपः । ' क्रियाविशेषणात् ' (२।२।४१) अम् । [ नाम्नः] नामन् पञ्चमी इसि । [कृगादिषु ] कृग् आदिर्येषां ते = १९१ कृगादयस्तेषु । बहुलग्रहणं प्रयोगानुसरणार्थम्, तेन यस्मान्नाम्नो यद्विभक्त्यन्ताद्यस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्तात्तद्धात्वर्थे एव भवतीति नियमो लभ्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy