________________
१९०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [व्याकरणं सूत्रयति] व्याकरणस्य सूत्रं करोति । व्याकरण द्वितीया अम् । सूत्रयति । 'णिज्बहुलं०' (३।४।४२) णिचप्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।।छ।।
नमो-वरिवश्चित्रकोऽर्चा-सेवा-5ऽश्चर्ये ।।३।४।३७।।
[नमोवरिवश्चित्रङः] नमश्च वरिवश्च चित्रङ् च = नमोवरिवश्चित्रङ्, तस्मात् । [अर्चासेवाऽऽश्चर्य] अर्चा च सेवा च आश्चर्यं च = अर्चासेवाऽऽश्चर्यम्, तस्मिन् ।
[नमस्यति देवान] देव-नमस् । देवेभ्यो नमः करोति । अनेन क्यनप्र० ।।
[वरिवस्यति गुरून] 'वृश् सम्भक्तौ' (१५६७) वृ । वृणीते इति । 'स्वरेभ्य इः' (उणा०६०६) इप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । वरिः-सेवकः, तत्र वसतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत' (१।११३७) विचलोपः । वरिवः = सेवा, तां करोतीति । अनेन क्यन्प्र० । गुरु द्वितीया शस् ।
[चित्रीयते] चित्र आश्चर्ये ( ) चित्र । चित्रं करोति । अनेन क्यन्प्र० → य । 'क्यनि' (४।३।११२) ई । डकार आत्मनेपदार्थः ।
[नमः करोति] नमस् द्वितीया अम् । ‘अनतो लुप्' (१।४।५९) अम्लोपः । अर्थप्रधानोऽयमव्ययं अत्र तु शब्दप्रधानः करोति, नमःशब्दमुच्चारयतीत्यर्थः ।
[चित्रं करोति] चित्रं करोति । नानात्वमालेख्यं वा करोतीत्यर्थः ।छ।।
अङ्गान्निरसने णिङ् ।।३।४।३८।। [अङ्गात्] अङ्ग पञ्चमी डसि । [निरसने] निरसन सप्तमी ङि । [णिङ् णिङ् प्रथमा सि । [हस्तयते] हस्त । हस्तौ निरस्यति ।
[पादयते] पाद । पादो(दो) निरस्यति । __ [ग्रीवयते] ग्रीवा । ग्रीवां निरस्यति-निराकरोति । सर्वत्र अनेन णिप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अवर्णलोपः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[हस्तयति हस्तं करोति । 'णिज्वहुलं०' (३।४।४२) णिचप्र० →इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः ।।छ।।
पुच्छादुत्-परि-व्यसने ।।३।४।३९।। [पुच्छात्] पुच्छ पञ्चमी डसि । [उत्परिव्यसने] उच्च परिश्च विश्च = उत्परिवयः, उत्परिविभ्योऽसनम्-उत्परिव्यसनम्, उत्परिव्यसनं च असनं च
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org