SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [मुण्डयति छात्रम्] मुण्ड | मुण्डं करोति । अनेन णिचप्र० । छात्र द्वितीया अम् । [मिश्रयत्योदनम मिश्र । मिश्रं करोति । अनेन णिचप्र० । [श्लक्ष्णयति वस्त्रम्] वस्त्र द्वितीया अम् । [लवणयति सूपम् लवणेन संसृष्टः । 'लवणादः' (६।४।६) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । लवणेन मिश्रं करोति । अनेन णिच्प० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । सूप द्वितीया अम् । [मुण्डयति] मुण्ड । अमुण्डं मुण्डं करोति । मतान्तरे णिचप्र० । [लघयति] लघु । लघु करोति । [छिद्रयति छिद्र । छिद्रं करोति । [कर्णयति कर्ण । कर्णं करोति । [दण्डयति] दण्ड । दण्डं करोति । [अन्धयति] 'अन्धण् दृष्ट्युपसंहारे' (१८८४) अन्ध् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । अन्धयतीति । 'अच्' (५।१।४९) अच्प० । अन्धं करोति । [अङ्कयति] ‘अकुङ् लक्षणे' (६१०) अक् । ‘उदितः स्वरान्नोन्तः' (४।४।९८) अक् । अक्यते इति । 'युवर्ण-वृदृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । अहूं करोति । [व्याकरणं सूत्रयति] व्याकरणस्य सूत्रं करोति । [द्वारमुद्घाटयति] उत् 'घटण संघाते' (१७३६) घट् । उद्घटनम् । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । द्वारस्योद्घाटं करोति । सर्वत्र अनेन णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । पाप्मिन उल्लाघयति पाप्मन् । पाप्मा-पापमस्त्येषाम् । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अनो लुक् । द्वितीया शस् । उल्लाघ । उल्लाघं करोति । [त्रिलोकी तिलकयति तिलक । त्रिलोक्यास्तिलकं करोति । अनेन णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । [पटयति] पटु । पटुमाचष्टे । अनेन णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरलोपः । स्थवयति] स्थूल । स्थूलमाचष्टे । अनेन णिचप्र० । 'स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः' (७।४।४२) “स्थू" आदेशो गुणश्च । ‘ओदौतोऽवाव्' (१।२।२४) अव् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय्' (१।२।२३) अय् । [दवयति] दूर । दूरमाचष्टे । अनेन णिच्प० । 'स्थूल-दूर-युव-हस्व-क्षिप्र०' (७।४।४२) "दु(दू)" आदेशो गुणश्च । 'ओदौतोऽवाव्' (१।२।२४) अव् । वर्त्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy