________________
१८८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[सत्रायते] सत्र । सत्राय कर्मणे क्रामति ।
गहनायते] गहन । गहनाय कर्मणे क्रामति । सर्वत्र अनेन क्यप्र० → य । 'दीर्घश्च्चि०' (४।३।१०८) दीर्घः । वर्त्त० ते ।
[कष्टाय तपसे कामति कष्टाय-तीवाय तपसे क्रामति । [कष्टायते] कष्टं चिकीर्षति । मतान्तरे क्यड्प्र० → य । ‘दीर्घश्च्चि-यङ्' (४।३।१०८) दीर्घः । कार आत्मनेपदार्थः ।।छ।।
रोमन्थाद् व्याप्यादुच्चर्वणे ॥३।४।३२।। [रोमन्थात् रोमन्थ पञ्चमी इसि । [व्याप्यात् व्याप्य पञ्चमी इसि । [उच्चर्वणे] उद्गीर्य चर्वणमुच्चर्वणम्, तस्मिन् ।
[रोमन्थायते गौः] उत् 'चर्व अदने' (४५३) चर्च् । उच्चर्वति । उच्चर्वणयोग्यो भवति रोमन्थस्तं प्रयुङ्क्ते, बहुलमेतन्निदर्शनमिति चुरादित्वं वा उच्चर्वं करोतीति वा । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिचप० → इ । रोमन्थमुच्चर्वयति । अनेन क्यड्स० विकल्पे । गो प्रथमा सि । उद्गीर्य चर्वयतीत्यर्थः ।
कीटो रोमन्थं वर्तयति] कीट प्रथमा सि । रोमन्थ द्वितीया अम् । 'वृतूङ् वर्तने' (९५५) वृत् । वर्तमानं प्रयुक्ते। णिगप० । उद्गीर्य बहिस्त्यक्तं पृष्ठन्तेन निर्गतं वा द्रव्यं गुटिकां करोतीत्यर्थः ।।छ।।
फेनोष्म-बाष्प-धूमादुद्वमने ।।३।४।३३।। [फेनोमबाष्पधूमात्] फेनश्च ऊष्मा च बाष्पश्च धूमश्च = फेनोष्मबाष्पधूमम्, तस्मात् । [उद्वमने] उर्ध्वं वमनं = उद्वमनम्, तस्मिन् । [फेनायते] फेन । फेनमुद्वमति । [ऊष्मायते] ऊष्मन् । ऊष्माणमुद्वमति । [वाष्पायते] बाष्प । बाष्पमुद्वमति ।।
[धूमायते] धूम । धूममुद्वमति । सर्वत्र अनेन क्यम० → य । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः ।।छ।।
सुखादेरनुभवे ।।३।४।३४॥ [सुखादेः] सुखमादिर्यस्याऽसौ सुखादिस्तस्मात् ।
[अनुभवे] अनु 'भू सत्तायाम्' (१) भू । अनुभवनम् । 'भू-श्र्यदोऽल (५।३।२३) अल्प० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव्, तस्मिन् ।
[सुखायते सुख । सुखमनुभवति । अनेन क्यप्र० । 'दीर्घश्च्चिय' (४।३।१०८) दीर्घः । वर्त० ते । 'कर्त्तर्यन०'
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org