SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ avaveramananew wwwwwwwwwwwwwsawaimaanaamannamam s Ammmmmmmmm mmmmmmmmmmmmmm wwwwwwwww अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ १८७ [ओजायते] ओजस् । अनोजस्वी ओजस्वी भवति । अनेन क्यड्स० → य-सलुक् च । सर्वत्र ‘दीर्घश्च्चि -यङ्-यक्क्येषु च' (४।३।१०८) दीर्घः । भवत्यर्थे क्यङ्, प्रागतत्तत्त्वमात्रे च च्चि, इत्यतोऽर्थभेदान्न क्यङ् च्वेर्बाधक इति भावार्थः ।।छ।। डाच्-लोहितादिभ्यः षित् ।।३।४।३०।। [डाच्लोहितादिभ्यः] लोहित आदिर्येषां ते = लोहितादयः, डाच् च लोहितादयश्च = डाच्लोहितादयस्तेभ्यः = डाच्लोहितादिभ्यः, पञ्चमी भ्यस् । [षित्] ष् इत् अनुबन्धो यस्याऽसौ षित् । प्रथमा सि । [पटपटायति, पटपटायते] अपटत् पटद्ववति । 'अव्यक्ताऽनुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च' (७।२।१४५) डाचप्र० → आ-द्विर्वचनं च । 'डाच्यादौ' (७।२।१४९) तलोपः । 'डित्यन्त्यस्वरादेः' (२।१११४) अन्त्यस्वरादि "अत्' लोपः । अपटपटा पटपटा भवति । अत्रे(त्रै)व क्य प्र० । यद्वा अपटत् पटेदवति इति कृते डाचि द्विर्वचनं क्यङ्ग इत्यादि क्रियते । [दमदमायति, दमदमायते] अदमत् दमद्भवति । 'अव्यक्तानुकरणा० (७।२।१४५) डाचप्र० → आ-द्विर्वचनं च । 'डाच्यादौ' (७।२१४९) तलोपः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लोपः । अनेन क्य प्र० → य । [लोहितायति, लोहितायते] अलोहितो लोहितो भवति । अनेन क्यष्प्र० → य । 'दीर्घश्च्चि०' (४।३।१०८) दीर्घः । 'क्यड़यो नवा' (३।३।४३) इति विकल्पेन आत्मनेपदम् ।। [अपटपटा पटपटा करोति]॥ न पटपटा = अपटपटा । अम् । 'अव्ययस्य' (३।२।७) लोपः । पटपटा । अस् । 'अव्ययस्य' (३१२७) लोपः, इति वाक्यनिष्पत्तिरिति । आकृतिगणात् “अमृतं यस्य विषायति" इति सिद्धम् । [धूमायति, धूमायते] धूम । अधूमवान् धूमवान् भवति । क्य प्र० →य । “दीर्घश्च्चि०' (४।३।१०८) दीर्घः आ ||छ।। कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ||३।४।३१।। [कष्टकक्षकृच्छ्रसत्रगहनाय]+ कष्टश्च कक्षश्च कृच्छ्रश्च सत्रश्च गहनश्च = कष्टकक्षकृच्छ्रसत्रगहनम्, चतुर्थ्यन्तं चैतत्, कष्टकक्षकृच्छ्रसत्रगहनाय, तस्मात् द्वे द्वे सति आयेन सह कर्मधारयो वा सूत्रत्वात् पञ्चम्या लोपः । कष्टपापहेतुत्वात् कर्मापि पापम् । कष्टायते] 'कष हिंसायाम्' (५०७) कष् । कषिष्यतीति । 'कषोऽनिटः' (५।३३) क्तप्र० → त । 'कषः कृच्छ्रगहने' (४।४।६७) इनिषेधः । कष्टाय कर्मणे क्रामति । कक्षायते] कक्ष । कक्षाय कर्मणे क्रामति । [कृच्छ्रायते कृच्छ्र । कृच्छ्राय कर्मणे क्रामति । P. अपटत् पटत् करोति । 'अव्यक्तानुकरणा०' (७।२।१४५) डाचप्र० । 'डाच्यादौ' (७।२।१४९) तलोपः । P. + कष्टं च कक्षं च कृच्छं च सत्रं च गहनायश्च = कष्ट० ... तेभ्यः, चतुर्थी भ्यस् । सूत्रत्वात् भ्यस्लोपः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy