SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ।। [गल्भते ] गल्भ । गल्भ इवाऽऽचरति । [अवगल्भते] अवगल्भ इवाऽऽचरति । [ क्लीब] क्लीब इवाऽऽचरति । [विक्लीबते ] विक्लीब इवाऽऽचरति । [ होडते ] होड इवाऽऽचरति । [विहोडते] विहोड इवाऽऽचरति । पञ्चसूदाहरणेषु अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । [गल्भांचक्रे, अवगल्भांचक्रे] गल्भ इवाऽऽचचार । अवगल्भ इवाऽऽचचार । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । परोक्षा ए । 'धातोरनेकस्वरादाम्०' ( ३।४।४६ ) आम् । 'डुकृंग् करणे' (८८८) कृ । परोक्षा ए । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “कृ” द्वि० । 'ऋतोऽत्' (४।१।३८) कृ० क० । 'कङश्च ञ्' (४।१।४६) क० → च० । ‘इवर्णादे०’ (१।२।२१) रत्वम् । ङित्त्वादात्मनेपदम् । [ अश्वति] अश्व । अश्वमिवाऽऽत्मानमाऽऽचरति गर्दभः अश्वति । मतान्तरे क्विपूप्र० । [ श्येनायते ] श्येन । श्येनमिवाऽऽत्मानमाऽऽचरति काकः = श्येनायते । मतान्तरे क्यङ्प्र०य । दीर्घश्च्वियङ्- यक्-क्येषु च ' ( ४।३।१०८) दीर्घः ।।छ।। १८५ = Jain Education International क्यङ् || ३ | ४|२६|| [य] क्यङ् प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् मे : ' (१।४।४५) सिलोपः । [ श्येनायते] श्येन इवाऽऽचरति । [हस्तायते ] हस्त इवाऽऽचरति । [हंसायते] हंस इवाऽऽचरति । [ अश्वायते] अश्व इवाऽऽचरति । [ गर्दभायते ] गर्दभ इवाऽऽचरति । [गल्भायते] गल्भ इवाऽऽचरति । [ क्लीबायते ] क्लब इवाऽऽचरति । [होडायते] होड इवाऽऽचरति । सर्वत्र अनेन क्यड्प्र०य । 'दीर्घश्च्वि० (४।३।१०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् । क्विप्क्यडोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः । ककारः सामान्यग्रहणार्थः । ङकार आत्मनेपदार्थः ||छ || इदमुदाहरणं बृहद्वृत्ती नास्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy