________________
१८४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[आचारे] आचार सप्तमी ङि ।
[पुत्रीयति छात्रम पुत्र । पुत्रमिवाऽऽचरति । अनेन क्यनप्र० → य । 'क्यनि' (४।३।११२) अ०'→ ई० । छात्र द्वितीया अम् ।
वस्त्रीयति कम्बलम वस्त्रमिवाऽऽचरति । अनेन क्यनप्र० →य । 'क्यनि-(४।३।११२) अ० → इ० । कम्बल द्वितीया अम् ।
आधारात् - [प्रासादीयति कुट्याम] प्रासाद । प्रासादे इवाऽऽचरति । अनेन क्यन्प्र० → य । क्यनि' (४।३।११२) ई । कुटी सप्तमी ङि ।
[पर्यडीयति मञ्चके] पर्यङ्क इवाऽऽचरति । अनेन क्यन्प्र० → य । ‘क्यनि' (४।३।११२) ई ।।छ।।
____ कर्तुः क्विप्, गल्भ-क्लीब-होडात्तु ङित् ।।३।४।२५।। [कर्तुः] कर्तृ पञ्चमी डसि । [क्विप] क्विप् प्रथमा सि ।
[गल्भक्लीबहोडात्] गल्भश्च क्लीबश्च होडश्च = गल्भक्लीबहोडम्, तस्मात् ।
[तु] तु प्रथमा सि । [डित् ङ् इत् अनुबन्धो यस्याऽसौ डित्, प्रथमा सि ।
[अश्वति अश्व । अश्व इवाऽऽचरति । अनेन क्विप्र० । 'अप्रयोगीत्' (११३७) क्विप्लोपः । वर्त्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
गर्दभति] गर्दभ । गर्दभ इवाऽऽचरति । अनेन क्विप्र० । 'अप्रयोगीत' (१।१।३७) क्विलोपः । वर्त० तिव । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
दधयति] दधि । दधीवाऽऽचरति । अनेन विपप्र० । 'अप्रयोगीत्' (१1१।३७) क्विपलोपः । वर्त० तिव । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् | 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[गवा] गौरिवाऽऽचरति । अनेन क्विपप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । ओदौतोऽवाव्' (१।२।२४) अव् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[नावा] नौरिवाऽऽचरति । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'आत्' (२०४।१८) आप्प्र० → आ ।
[राजनति राजन् । राजेवाऽऽचरति । अनेन स्विप० । 'अप्रयोगीत्' (१।१।३७) क्विपलोपः । वर्त्त० तिव । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
. [मधुलेहति] मधु 'लिहींक आस्वादने' (११२९) लिहू । मधु लेढीति । क्विप्र० । 'अप्रयोगीत्' (१1१३७) क्विपलोपः । मधुलिडिवाऽऽचरति । अनेन क्विप् पुनरेव । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org