________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ।।
[पुष्येण योजयति चन्द्रम् ] 'युजूंपी योगे' (१४७६) युज् । पुष्येण सह चन्द्रयुक्तं (?) (चन्द्रं युञ्जन्तं प्रयुङ्क्ते । अनेन णिग्प्र० इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[मघाभिर्योजयति गणकः ] मघाभिः सह चन्द्रं युञ्जन्तं प्रयुङ्क्ते । गणक प्रथमा सि । 'सहार्थे' (२।२।४५ ) इत्यनेन तृतीया अत्र ज्ञानेन ।
[उज्जयिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति] महिष्मत् । महिष्मति भवा । 'भवे' (६ | ३|१२३) अण्प्र० → अ । ‘वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ । 'अणञेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) डी, तस्याम् । उज्जय ( यि )नी पञ्चमी ङसि । उद्-गम् । उद्गच्छति सूर्यः, तमुद्गच्छन्तं सूर्यं पान्थः प्रयुङ्क्ते । अनेन णिग्प्र० इ । 'ति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । ‘अमोऽकम्यमि- चमः ' ( ४।२।२६) ह्रस्वः । प्रतिष्ठते स्म = प्रस्थितः । 'गत्यर्था - Sकर्मक-पिब-भुजेः' (५19199) क्तप्र० त । 'दो-सो-मा-स्थ इ: ' ( ४|४|११ ) इ । प्रथमा सि ।
[ रैवतकात् प्रस्थितः शत्रुञ्जये सूर्यं पातयति ] 'पत्लृ गतौ ' ( ९६२) पत् । पतति सूर्यस्तं पतन्तं सूर्यं पान्थः प्रयुङ्क्ते । अनेन णिग्प्र० इ । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । अत्र प्राप्त्या ||छ ।
१८१
तुमर्हदिच्छायां सन्नतत्सनः || ३ | ४ | २१ ||
[तुमर्हात्] तुम् अर्ह पूजायाम्' (५६४) अर्ह । +तुमर्हतीति तुमर्हः । 'अर्होऽच्' (५।१।९१ ) अच्प्र० अ ।
तस्मात् ।
[इच्छायाम्] 'इषत् इच्छायाम् ' (१४१९) इष् । एषणमिच्छा । ' मृगयेच्छा - याच्ञा तृष्णा - कृपा-भा-श्रद्धा-ऽन्तर्द्धा' ( ५|३|१०१ ) इच्छा निपात्यते, तस्याम् ।
[सन्नतत्सनः] सन् प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलोपः । स एव इच्छायां सन् = तत्सन् । न तत्सन् अतत्सन् तस्मात् । ' ह्रस्वान्ङ-ण-नो द्वे' (१।३।२७) नस्य द्वित्वम् ।
यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हः ।
[चिकीर्षति ] 'डुकंग करणे' (८८८) कृ । करणं
कर्तुम् । 'शक- धृष-ज्ञा-रभ-लभ-सहा - ऽर्ह-ग्ला-घटाऽस्ति समर्थाऽर्थे च तुम्' (५।४।९०) तुम्प्र० । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० अर् । कर्तुमिच्छति । अनेन सन्प्र० । 'स्वरहन-गमोः सनि धुटि' (४।१।१०४ ) दीर्घः । ' सन्-यङश्च' (४।१।३) द्वित्वम् । 'ह्रस्वः' ( ४|१|३९ ) ह्रस्वत् । 'ऋतोऽत् ' (४।१।३८) ऋ० अ० । 'क-डश्च- ञ्' (४।१।४६) क० च० । 'सन्यस्य' ( ४।१।५९) इ । 'ऋतां क्ङितीर्' (४|४|११६) इर् । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । 'नाम्यन्तस्था० ' (२।३।१५) प० । अत्र इषेः कर्म कृग् इषेः कृगश्च एक एव नरः कर्त्ता, य एव करोति स एवेच्छतीत्यर्थः ।
=
=
[जिगमिषति ] 'गम्लृ गतौ ' ( ३९६) गम् । गमनं = गन्तुम् । 'शक- धृष-ज्ञा-रभ-लभ-सहा - ऽर्ह ग्ला० (५/४/९० ) तुम्प्र० । गन्तुमिच्छति । अनेन सन्प्र० । 'सन्- यङश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलोपः ।
Jain Education Intemational
P. तमुद्गच्छन्तं उज्जयिन्याः प्रदोषे प्रस्थितः पथिकः प्रयुङ्क्ते ।
P. +
तुमर्हतीति ।
P. 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां विडतीर्' (४|४|११६) इर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'सन्यङश्च' (४।१।३) "की" द्विः । ' ह्रस्वः' ( ४1१1३९ ) ह्रस्वः । क ङश्च ञ्' (४|१|४६) क०
च० । वर्त्त० तिव् । शव् ।
For Private & Personal Use Only
www.jainelibrary.org