________________
१८०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[क्षन्तारः] 'क्षमू(मौ)च सहने' (१२३५) क्षम् । क्षाम्यन्तीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० । प्रथमा जस् । 'तृ-स्वसृ-नप्त-नेष्ड०' (१।४।३८) आर् ।
सर्वं भवति = प्राप्नोतीत्यर्थः ।।छ।।
प्रयोक्तृव्यापारे णिम् ।।३।४।२०।। [प्रयोक्तृव्यापारे] प्रयोक्तुर्व्यापारः = प्रयोक्तृव्यापारस्तस्मिन् । [णिग्] णिग् प्रथमा सि ।
कर्तारं यः प्रयुक्ते स प्रयोक्ता, तद् व्यापारे...... । व्यापारश्च प्रेषणाध्येषण-निमित्त-भावाख्यानाभिनय-ज्ञानप्राप्तिभेदैरनेकधा भवति । तत्र तिरस्कारपूर्वको व्यापारः = प्रेषणम्, सत्कारपूर्वकस्त्वध्येषणम् ।
कारयति] 'डुबंग करणे' (८८८) कृ । कुर्वन्तं प्रयुक्ते । अनेन णिग्प० । 'नामिनोऽकलि-हलेः' (४१३५१) वृ० आर् ।
[पाचयति] 'डुपची पाके' (८९२) पच् । पचन्तं प्रयुक्ते । अनेन णिग्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । विासयति भिक्षा] 'वसं निवासे' (९९९) वस् । वसन्तं प्रयुक्ते । अनेन णिगप्र० → इ ।
[कारीषाग्निरध्यापयति] करीष । करीषस्याऽयम् । 'तस्येदम्' (६।३।१६०) अणप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । अग्नि प्रथमा सि । अधि 'इंकू अध्ययने' (११०४) इ । अधीयानं प्रयुक्ते । अनेन णिग्प० → इ | ‘णौ क्री-जीङः' (४।२।१०) इ० → आ० । 'अर्त्ति-री-व्ली०' (४।२।२१) पोऽन्तः । वर्त० तिव । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१२१२३ निमित्तभावेन ।
[राजानमागमयति] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लुं गतौ' (३९६) गम् । राजानमागच्छन्तं प्रयुक्ते । अनेन णिगप्र० → इ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । ‘अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः ।
[मृगान् रमयति] 'रमिं क्रीडायाम्' (९८९) रम् । रमन्तं(माणं) प्रयुङ्क्ते । अनेन णिगप्र० → इ | 'अणिगि प्राणिकर्तृकानाप्याण्णिगः' (३।३।१०७) परस्मैपदम् ।।
[रात्रिं विवासयति कथकः] रात्रि द्वितीया अम् । 'वसं निवासे' (९९९) वस्, विपूर्व० । विवसन्तं प्रयुङ्क्ते । अनेन णिग्प्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । आख्यानेन हि बुद्धयारूढा राजादयः प्रयुक्ताः प्रतीयन्ते ।
[कंसं घातयति कंस द्वितीया अम् । 'हनंक हिंसा-गत्योः' (११००) हन् । हन्ति नारायणः कंसं, तं कंसं घ्नन्तमन्यः प्रयुक्ते । अनेन णिगप्र० → इ । 'ज्णिति घात्' (४।३।१००) घात् ।
[बलिं बन्धयति नटः] बलि द्वितीया अम् । 'बन्धंश् बन्धने' (१५५२) बन्धु । बध्नाति बलिं नारायणस्तं बलिं बध्नन्तं अन्यः प्रयुक्ते । अनेन णिग्प० → इ । अत्राभिनयेन ।
P.
वसति भिक्षुस्तं वसन्तं भिक्षु भिक्षा प्रयुक्ते ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org