________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ।।
१७९
युजादेर्नवा ||३|४|१८|| [युजादेः] युज् आदिर्यस्य सः = युजादिस्तस्मात् । [नवा] नवा प्रथमा सि ।
[योजयति, यजति] 'युजण् संपर्चने' (१९४१) युज् । अनेन णिच्प० → इ विकल्पेन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[साहयति, सहति] 'षहण मर्षणे' (१९८१) षह् । ‘षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सह । अनेन णिच्प्र० → इ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः ।
युजादीनां णिजभावपक्षे आत्मनेपदस्य चरितार्थत्वात् णिजन्तानां परस्मैपदमेव, यथा अर्चयति-अर्चति ।।छ।।
भूङः प्राप्तौ णिङ् ।।३।४।१९।। [भूङः] भूङ् पञ्चमी डसि । [प्राप्तौ] प्राप्ति सप्तमी ङि । 'डिौँ' (१।४।२५) ङि → डौ । [णि] णिङ् प्रथमा सि ।
[भावयते, भवते] 'भू सत्तायाम्' (१) भू । भूः प्राप्त्यर्थे डित् भूडिति ज्ञातव्यः । अनेन णिम० वा । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । वर्त० ते । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । प्राप्नोतीत्यर्थः ।
णिङिति डकार आत्मनेपदार्थः । भूङ इति डकारनिर्देशो णिङभावेऽप्यात्मनेपदार्थः । प्राप्त्यभावे आत्मनेपदम्
याचितारश्च नः सन्तु, दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु, क्षन्तारश्च भवामहे ।।१।।
याचितारः] 'डुयाग याच्ञायाम्' (८९१) याच् । याचन्तीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० → तृ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । प्रथमा जस् । 'तृ-स्वसृ-नप्त-नेष्ट०' (१।४।३८) आर् ।
[दातारः] 'डुदांग्क् दाने' (११३८) दा । ददतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । प्रथमा जस् । 'तृस्वसृ-नप्त-नेष्ट०' (१।४।३८) आर् ।
[भवामहे] 'भू सत्तायाम्' (१) भू । वर्त० महे । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'म-व्यस्याः ' (४।२।११३) दीर्घः ।
[आक्रोष्टारः] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश्, आङ्पूर्व० । आक्रोशन्तीति । ‘णक-तृचौ' (५।१।४८) तृचप० → तृ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'यज-सृज-मृज०' (२।३८७) श० → प० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । प्रथमा जस् । 'तृ-स्वसृ-नप्त-नेष्ट०' (१।४।३८) आर् ।
[नः] अस्मद् षष्ठी आम् । ‘पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे' (२।१।२१) नसादेशः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org