SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [रोरूयः] टुक्षु (१०८४)-'रु शब्दे' (१०८५) रु । भृशं पुनः पुनर्वा रौति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१३) द्वित्वम् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ | 'दीर्घश्च्चि०' (४।३।१०८) दीर्घः । रोरूयत इति । 'अच्' (५।१।४९) अच्प्र० । अतः' (४।३।८२) अलोपः । अत्र पृथग्योगाद बहुलमित्यनेनापि न भवति यङ्लुप, अन्यथा “अचि नोतः' इत्येकमेव कुर्यात् ।।छ।। चुरादिभ्यो णिच् ।।३।४।१७।। [चुरादिभ्यः] चुर् आदिर्येषां ते = चुरादयस्तेभ्यः = चुरादिभ्यः । [णिच्] णिच् प्रथमा सि । [चोरयति] 'चुरण स्तेये' (१५६८) चुर् । अनेन णिच्प्र० →इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [नाटयति] 'नटण अवस्यन्दने' (१५९३) नट् । अनेन णिच्प्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धि: आ । वर्त्त० तिव् । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१२।२३) अय् । पदयते 'पदणि गतौ' (१९३२) पद । अनेन णिचप्र० → इ । 'अतः' (४।३।८२) अस्य लोपः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । णकारो वृद्ध्यर्थः, यद्यत्र चकारो न स्यात् अयमेवैकानुबन्धो णिरिति ततः णिग्रहणेष्वस्यैव ग्रहणं स्यात्, न सामान्येन णिगामित्यर्थः । + [ओलण्डयति] 'ओलडुण उत्क्षेपे' (१६२४) ओलण्ड । अनेन णिच्प्र० →इ | वर्त० तिव् | 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । हन्त्यर्थाश्चेति किं कथ्यते ? सर्वे हन्त्यर्था धातवोऽत्र पठितव्याः, तेन णिज-शि(श)वादिकं च कार्यं भवति । अदन्तत्वं च सुखादीनां णिसंनियोग एव द्रष्टव्यम्, तेन णिजभावे [जगणतुः] 'गणण् संख्याने' (१८७४) गण । परोक्षा अतुस्प्र० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४११४०) ग० → ज० । [जगणिथ] 'गणण संख्याने' (१८७४) गण । परोक्षा थवप० । 'द्विर्धातुः परोक्षा-डे०' (४११) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः' (४।११४०) ग० → ज० । 'स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रुस्रोर्व्यञ्जनादे: परोक्षायाः' (४।४।८१) इट् । __ [संवाहयति] सम् ‘वहीं प्रापणे' (९९६) वह् । अनेन णिच्प्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ||छ।। P. म 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । + बृहद्वृत्तौ इदमुदाहरणं नास्ति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy