SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [दन्दश्यते] ‘दंशं दशने' (४९६) दंश् । गर्हितं दशति । अनेन यङ्म० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'जप-जभ-दह-दश-भञ्ज-पशः' (४।११५२) मोऽन्तः । [दन्दाते 'दहं भस्मीकरणे' (५५२) दह् । गर्हितं दहति । अनेन यड्य० । 'सन्-यडश्च' (४।१३) द्वित्वम् । 'जपजभ-दह-दश-भञ्ज-पशः' (४।१।५२) मोऽन्तः । [दंदशीति] 'दंशं दशने' (४९६) दंश् । गर्हितं दशति । अनेन यड्य० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'जप-जभ-दह-दश-भञ्ज-पशः' (४।१।५२) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'यङ्तु-रु०' (४।३।६४) ईत् ।।छ।। न गृणा-शुभ-रुचः ।।३।४।१३।। [गृणाशुभरुचः] गृणाश्च शुभश्च रुच् च = गृणाशुभरुच, तस्मात् । [गर्हितं गृणाति] 'गृश् शब्दे' (१५३८) गू । वर्त० तिव । 'क़्यादेः' (३।४।७९) श्नाप्र० → ना । 'प्वादेहूस्वः' (४।२।१०५) ह्रस्वः । [भृशं शोभते] 'शुभि दीप्तौ' (९४७) शुभ् । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । शव' (३।४७१) शव । भृिशं रोचते] 'रुचि अभिप्रीत्यां च' (९३८) रुच । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।।छ।। बहुलं लुप् ।।३।४।१४।। [बोभूयते, बोभवीति, बोभोति] 'भू सत्तायाम्' (१) भू । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यड्प० । ‘सन्-यडश्च' (४।१।३) द्वित्वम् । 'हस्वः' (४।१।३९) ह्रस्वत् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'द्वितीयतुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । अनेन यङलुप् । द्वितीये ‘यङ्-तु-रु-स्तोर्वहुलम्' (४।३।६४) ईत् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [रोख्यते, रोरवीति, रोरोति टुक्षु (१०८४) - ‘रु शब्दे' (१०८५) रु । भृशं पुनः पुनर्वा रौति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्वित्वम् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । यङि लोपे 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् → ई । [चक्रम्यते, चंक्रमीति, चंक्रन्ति] 'क्रम पादविक्षेपे' (३८५) क्रम् । कुटिलं क्रामति । 'गत्यर्थात् कुटिले' (३।४।११) यड्प० । शेषं पूर्ववत् । [जंजप्यते, जंजपीति, जंजप्ति] 'जप मानसे च' (३३८) जप् । गर्हितं जपति । 'गृ-लुप-सद-चर-जप-जभ-दश-दहो गर्ये' (३।४।१२) यप्र० । 'सन्-यङश्च' (४।१।३) द्वित्वम् । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलोपः । यडि लुपि 'यङ्तु-रुं-स्तोर्बहुलम्' (४।३।६४) ईत् →ई । लोलूया 'लूगश् छेदने' (१५१९) लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन् Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy