________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
[दन्द्रम्यते] अम (३९२) - 'द्रम गतौ' (३९३) द्रम् । कुटिलं द्रमति । अनेन यप्र० । 'सन्-यङश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः ।
[भृशमभीक्ष्णं वा क्रामति] क्रम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'क्रमो दीर्घः परस्मै’ (४।२।१०९) दीर्घः ।
[ जंगमः ] अम ( ३९२) द्रम (३९३ ) - हम्म (३९४ ) मीमृ ( ३९५ ) - 'गम्लं गतौ' (३९६) गम् । भृशं पुनः पुनर्वा गच्छति । मतान्तरे 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । 'सन्- यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' ( ४।१।४४) मलोप: । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । जंगम्यते । 'अच्’ (५।१।४९) अच्प्र० अ । 'अचि' ( ३।४।१५ ) यलोपः । मिथ्याशंकार्थः । गच्छतीति 'गमेर्जम् च वा' (उणा० १३) अप्र० । सरूपे च द्वे रूपे भवतः, पूर्वस्य च "जम्" इत्यादेशो वा भवति । रूढिशब्दोऽयं लक्षणया स्थावरप्रतिपक्षमात्रे वर्तते ॥ छ ॥
तस्मात् ।
तस्मिन् ।
गृ-लुप- सद-चर-जप-जभ - दश-दहो गये || ३ | ४ ।१२ ।।
[गृलुपसदचरजपजभदशदह: ] गृश्च लुपश्च सदश्च चरश्च जपश्च जभश्च दशश्च दह् च = गृलुपसदचरजपजभदशदहू,
[ग] 'गर्हि कुत्सने' (८६०) गर्छ । गर्त्यते
१७५
=
[निजेगिल्गते ] 'गृत् निगरणे' (१३३५) गृ । गर्हितं निगिरति । अनेन य० । 'ऋतां क्ङितीर्' (४|४|११६) गिर् । ‘सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । 'ग- होर्ज : ' ( ४।१।४०) ग० ज० । 'आगुणावन्यादेः' (४।१।४८ ) ए । 'ग्रो यङि' (२।३।१०१ ) २० ल० ।
गर्ह्यम् । 'ऋवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र० य,
[लोलुप्यते] 'लुप्लृती छेदने' (१३२३) लुप् । गर्हितं लुम्पति । अनेन यप्र० । 'सन्-यडञ्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलोपः । ' आ-गुणावन्यादेः' (४।१।४८) गु० ओ ।
Jain Education International
[ सासद्यते] 'षद् विशरण- गत्यवसादनेषु' (९६६ ) पद् । 'पः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद् । गर्हितं सीदति । अनेन यड्प्र० । 'सन्-यश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक् (४।१।४४) दलोपः । ' आ-गुणावन्यादेः' (४।१।४८) आ ।
[चञ्चर्यते] 'चर भक्षणे च' (४१०) चर् । गर्हितं चरति । अनेन यप्र० । 'सन्-यङश्च' (४।१।३) द्वित्वम् । 'चरफलाम्' (४।१।५३) मोऽन्तः । ' ति चोपान्त्याऽतोऽनोदु:' ( ४।१।५४) अस्य उ० । 'दीर्घश्च्वि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः ।
[जञ्जप्यते] 'जप मानसे च' (३३८) जप् । गर्हितं जपति । अनेन य० । 'सन्-यङश्च' (४।१।३) द्वित्वम् । ‘जपजभ-दह-दश-भञ्ज-पशः' (४।१।५२) मोऽन्तः ।
-
[जञ्जभ्यते ] जभुङ् (७८२) 'जभैङ् गात्रविनामे' (७८३) जभ् । गर्हितं जम्भते । 'जभ मैथुने' (३७९) जभ् । गर्हितं जम्भति । अनेन यप्र० । 'सन्- यङश्च' (४११।३) द्वित्वम् । 'जप- जभ -दह-दश-भञ्ज-पशः' (४।१।५२ ) मोऽन्तः ।
P. 5 'भ्वादेर्नामिनो० (२।१।६३) दीर्घः ।
For Private & Personal Use Only
www.jainelibrary.org