________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) चलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[जाज्वल्यते] 'ज्वल दीप्तौ' (९६०) ज्वल् । भृशं पुनः पुनर्वा ज्वलति । अनेन य० । 'सन्-यश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
यदा तु अभीक्ष्ण्यभृशार्थयङन्तादाभीक्ष्ण्यविवक्षा तदा भवत्येव द्विर्वचनम्, पापच्यते २ ।
यदा तु आभीक्ष्ण्ययङन्तात् भृशार्थविवक्षा तदा न भवति द्विर्वचनम्, शब्दशक्तिस्वभावात्, तस्यार्थस्य यडैव प्रतिपादितत्वात् पापच्यस्व २ इति, अत्र ‘'भृशा ऽऽभीक्ष्ण्ये हि स्वौ यथाविधि त-ध्वमौ च तद्युष्मदि' (५।४।४२) पञ्चमी स्व ।
[भृशं प्रात्ति ] भृशम् 'क्रियाविशेषणात्' (२।२।४१) अम् । प्र 'अदं भक्षणे' (१०५९) अद् । वर्त्त० तिव् । 'अघोषे प्रथमोऽशिट : ' (१|३|५०) द० त० ।
[भृशमीक्षते ] 'ईक्षि दर्शने' (८८२) ईक्ष् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[ भृशं चकास्ति ] भृशम् 'क्रियाविशेषणात् ' (२।२।४१) अम् । 'चकासृक् दीप्तौ' (१०९४) चकास् । वर्त्त० तिव् । [जाजाग्रीयते] 'जागृक् निद्राक्षये' (१०९३) जागृ । भृशं पुनः पुनर्वा जागर्त्ति । मतान्तरे अनेनैव यप्र० य० । द्वित्वम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' (४।१।३९) ह्रस्वत् । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'ऋतो रीः' (४।३।१०९) री । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
१७३
[अवाव्यते] 'अव रक्षण- गति- कान्ति- तृप्त्यवगमन-प्रवेश- श्रवण-स्वाम्यर्थ याचना-क्रियेच्छा- दीप्त्यवाप्त्या-ऽऽ लिङ्गन-हिंसादहन - भाव - वृद्धिषु' (४८९) अव् । भृशं पुनः पुनर्वा अवति । मतान्तरे अनेनैव यप्र० । 'स्वराऽऽदेर्द्वितीयः ' ( ४|११४) व्य सिउं द्वित्वम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) यलुक् । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः `शव्' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[दादरिद्यते] 'दरिद्राक् दुर्गतौ ' (१०९२) दरिद्रा । भृशं पुनः पुनर्वा दरिद्राति । य० । द्वित्वम् । 'आ-गुणावन्यादेः ' (४।१।४८) आ । ‘अशित्यस्सन्- णकज्- णका-Sनटि' (४।३।७७) आलोपः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शब् । 'लुगस्यादेत्यपदे' (२।१।११३ ) अलोपः ।
[लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ] 'लूग्श् छेदने' (१५१९) लू । पञ्चमी हि । 'क्र्यादेः' (३।४।७९) श्नाप्र० → ना । ‘एषामी व्यञ्जनेऽद:' ( ४।२।९७ ) ई । 'प्वादेर्हस्वः' ( ४।२।१०५ ) ह्रस्वः । ' वीप्सायाम्' (७।४।८०) द्वित्वम् ||छ ||
अटयति-सूत्र- मूत्रि-सूच्यशूर्णोः || ३|४|१०||
[अट्यर्त्तिसूत्रिमूत्रिसूच्यशूर्णोः] अटिश्च अर्त्तिश्च सूत्रिश्च मूत्रिश्च सूचिश्च अस् (श्) च ऊर्णुश्च = अट्यर्त्तिसूत्रिमूत्रिसूच्यपूर्ण, तस्मात्, पञ्चमी ङसि । ‘ङित्यदिति' (१।४।२३) ओ । ' एदोद्भ्यां ङसिङसो रः ' (१।४।३५) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः ।
P. अशूश्च अश् च वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org