________________
१७२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[यक यक् प्रथमा सि .। 'दीर्घड्याब्०' (१।४।४५) सिलोपः ।
द्विविधाः कण्ड्वादयः, धातवो नामानि च, अत्र तु धातुभ्यः प्रत्ययः । [कण्डूयति, कण्डूयते] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू, सौत्रो धातुः । अनेन यकप० । वर्त्त० तिव्-ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[महीयते] 'महीङ् वृद्धौ पूजायाञ्च (१९९२) मही सौत्रो धातुः । अनेन यकप्र० । वर्त्त० ते । 'कतर्यनभ्यः शव' (३।४।७१) शव् ।
[मन्तूयति] 'मन्तु रोष-वैमनस्ययोः' (१९९६) मन्तु, सोत्रो धातुः । अनेन यक्प० । 'दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[कण्डूः, कण्डवी, कण्डवः] 'कष हिंसायाम्' (५०७) कष् । कषतीति । 'कषेर्ड-च्छौ च षः' (उणा० ८३१) ऊप्र० षकारस्य च ण्ड आदेशे कण्डूशब्दः । सि-औ-जस् ।
तत् तूभाभ्यां कथं न भवति, न, यदि उभाभ्यामभिप्रेतः स्यात्, तदा कण्डूय इत्यादि पठेत, न सूत्रं कुर्यात्, तस्मादेकस्मादेव विधिरित्याह-यकः कित्फलं 'नामिनो गुणो०' (४।३।१) इत्येवमादीनि तानि च धातोरेव संभवन्ति, आह-यदा तु 'दीर्घश्च्चि -य' (४।३।१०८) इत्यादि कित्त्वफलं तदा धातुग्रहणमत्रापि सार्थम् ।
कण्डूग् गकारः फलवति 'ई-गितः' (३।३।९५) इत्यात्मनेपदार्थः ।।छ।।
व्यञ्जनादेरेकस्वराद् भृशा-ऽऽभीक्ष्ण्ये यङ् वा ।।३।४।९।। [व्यञ्जनादेः] व्यञ्जनमादिर्यस्य सः = व्यञ्जनादिः, तस्मात् । [एकस्वरात्] एकः स्वरो यस्य सः = एकस्वरस्तस्मात् । [भृशाऽऽभीक्ष्ण्ये] भृशश्च आभीक्ष्ण्यं च = भृशाऽऽभीक्ष्ण्यम्, तस्मिन् । [यङ्] यङ् प्रथमा सि । [वा] वा प्रथमा सि ।
ननु उत्तरसूत्रे अट्यर्त्तिग्रहणात् व्यञ्जनादित्वं सूत्रि-मूत्रिग्रहणात् एकस्वरत्वं लप्स्यते, न, गत्यर्थानां धातूनां भृशाभीक्ष्ण्येऽर्थे यङ् स्यात् तदा अट्योरेव स्यात्, तथा च दनीध्वस्यते इति न स्यात्, व्यञ्जनादीनामेकस्वराणामदन्तानामेव स्यात्, तथा च पापच्यते इति न स्यादिति विपरीतनियमाशङ्का स्यात्, तन्निवृत्त्यर्थं व्यञ्जनादेरेकस्वरादित्युक्तम् ।
गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवहितानां साकल्येन संपत्तिः फलातिरेको वा भृशत्वम् । प्रधानक्रियाया विक्लेदादे: क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम् । अत्र भृशत्वं लक्षणे क्रियान्तरैर्विक्तृप्तिर्बाधकैर्गमनपठनादिभिरव्यवहितानामनन्तरितानां साकल्येन सामस्त्येन प्राप्तिरित्यर्थः । अत्र विक्लृप्तिर्विटचनक्रिया[पापच्यते] 'डुपची पाके' (८९२) पच् । भृशं पुनः पुनर्वा पचति । अनेन यम० । 'सन्-यडश्च' (४।१।३) द्वित्वम् ।
'Pभृशं च ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org