________________
अथ तृतीयाध्यायस्य चतुर्थः पाद: ।।
१७१ स्वरेष्वादे०' (७।४19) वृ० आर् । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । निशानं च आर्जवं च विचारश्च वैरूप्यं च = निशानाऽऽर्जवविचारवैरूप्यम्, तस्मिन् । विरूपस्य भावः । 'पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) टॅयणप्र०
→ य । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृ० ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[इतः] इत् षष्ठी ङस् ।
यदि इतग्रहणं न क्रियते तर्हि बधधातोः प्रथममेव अद्वित्वे सति स्वार्थिके सनि आ(अ)कारस्य दीर्घत्वं प्राप्नोति, तन्निराकरणार्थमित्करणम् ।
[शीशांसति, शीशांसते 'शानी तेजने' (९१५) शान् । अनेन सन्प्र० । न पुनरेतेषु वाक्यं कर्त्तव्यम् । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलोपः । हूस्वः' (४।१।३९) ह्रस्वत् । 'सन्यस्य' (४।११५९) इ । अनेन दीर्घः । वर्त्त० तिव्-ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'शिङ्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः ।
[दीदांसति, दीदांसते] 'दानी अवखण्डने' (९१४) दान् । अनेन सन्प्र० । 'सन्-यडश्च' (४।१३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलोपः । 'हस्वः' (४।१।३९) ह्रस्वत् । 'सन्यस्य' (४।१।५९) इ । अनेन दीर्घः । 'शिड्हेऽनुस्वारः' (१।३।४०) अनुस्वारः ।
[मीमांसते] 'मानि पूजायाम्' (७४९) मान् । अनेन सन्प० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलोपः । 'हूस्वः' (४।१।३९) ह्रस्वत् । 'सन्यस्य' (४।११५९) इ । अनेन दीर्घः । 'शिड्-हेऽनुस्वार अनुस्वारः ।
[बीभत्सते] 'बधि बन्धने' (७४६) वध् । अनेन सन्प्र० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) धलोपः । 'सन्यस्य' (४।१५९) इ । अनेन दीर्घः । 'ग-ड-द-बाश्चतुर्थान्तस्यै०' (२।१७७) ब० → भ० । 'अघोषे प्रथमोऽशिटः' (११३५०) ध० → त० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
अग्रे एते धातवो मण्ड्यन्ते, वाक्यं च एतैर्विधीयते, शान्-दान्-मान्-बध् । [निशानम्] 'शोंच तक्षणे' (११४७) शो, निपूर्व० । निश्यतीति निशानम् । 'अच्' (५।१।४९) अच्प्र० → अ | [अवदानम्] 'दोच् छेदने' (११४८) दो, अवपूर्व० । अवद्यतीति अवदानम् । 'अच्' (५।१।४९) अच्प० → अ। [अवमानयति] पूजयन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ ।
[बाधयति] अबध्नन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'न जन-बधः' (४।३।५४) इति दीर्घत्वं निषेधः ।
एतेषु उदाहरणेषु तु पूर्वं धातवो मन्यन्ते, यतोऽर्थान्तरे वाक्यमस्ति ।।छ।।
धातोः कण्ड्वादेर्यक् ।।३।४।८।।
[धातोः] धातु पञ्चमी इसि ।
[कण्डवादेः] कण्डू(:) आदिर्यस्याऽसौ कण्ड्वादिः, तस्मात् ।
ॐ अत्र 'बधण संयमने' (१६६४) धातोर्ग्रहणं सम्यक् प्रतिभाति ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org