________________
१७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
तेजनम तिज | +तिज्यते = तेजनम् । 'अनट' (५।३।१२४) अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[तेजयति] तिज्यन्तं (?) (तेजमान) प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिम्प्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए।
अनेन केवलं सनप्राक गर्दा-क्षान्तौ च अर्थान्तरेऽपि त्यादयो न विधीयन्ते उपलक्षणत्वात, शत्रानशावपि अभिधाने शक्तिस्वाभाव्यादिति शेषः छ।।
कितः संशय-प्रतीकारे ।।३।४।६।।
[कितः] कित् पञ्चमी डसि ।
[संशयप्रतीकारे उभयकोटिरवलंबीप्रत्ययः = संशयः । दुःखहेतोर्निराकरणं = प्रतीकारः । संशयश्च प्रतीकारश्च = संशयप्रतीकारम्, तस्मिन् । 'शीडक् स्वप्ने' (११०५) शी, सम्पूर्व० । संशयनं = संशयः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अलप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय ।, प्रति ‘डुकंग करणे' (८८८) कृ । प्रत्या(पति)क्रियते = प्रतीकारः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) आर् । 'घज्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः ।
[विचिकित्सति] 'कित निवासे' (२८६) कित्, विपूर्व० । अनेन सन्प्र० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) तलोपः । 'क-डश्च-ञ्' (४११६४) क० → च० । संशत इत्यर्थः ।
[व्याधिं चिकित्सति] व्याधि द्वितीया अम् । चिकित्सति करोति = निराकरोतीत्यर्थः ।
[क्षेत्रे चिकित्स्यः पारदारिकः] क्षेत्र सप्तमी ङि । शरीरे चिकित्स्यते । ‘य एच्चातः' (५।१।२८) यप्र० । 'अतः' (४।३।८२) अलोपः । परदारान् गच्छतीति । 'परदारादिभ्यो गच्छति' (६।४।३८) इकणप्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । निग्राह्य इत्यर्थः ।।
चिकित्स्यानि क्षेत्रे तृणानि] चिकित्स्य द्वितीया शस् । क्षेत्र द्वितीया अम् (?) (सप्तमी ङि) । तृण द्वितीया शस् । 'नपुंसकस्य शिः' (१।४।५५) शि० -→ इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । विनाशयितव्यानि इत्यर्थः ।
[केतनम्] उष्यते = केतनम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन ।
[केतयति] निवसन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ||छ।।
शान्-दान्-मान्-बधान्निशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः ।।३।४।७।। [शान्दान्मान्बधात् शान् च दान् च मान् च बधश्च = शान्दान्मान्वधम्, तस्मात् । [निशानाऽऽर्जवविचारवैरूप्ये] ऋजु । ऋजोर्भावः । 'वृवर्णाल्लघ्वादेः' (७।१।६९) अणप्र० → अ । 'वृद्धि:
P. + तिज्यते-उत्तेज्यत इति ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org