________________
अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
ऋतेर्डीयः ||३ | ४ | ३ ॥
[ ऋते:] ऋति पञ्चमी ङसि ।
[डीयः ] ङीय प्रथमा सि ।
[ ऋतीयते ] 'ऋत घृणा - गति - स्पर्धेषु' (२८७) ऋत् । अनेन स्वार्थे ङीयप्र० ईय । ङकार आत्मनेपदाद्यर्थः, आदिशब्दात् गुणाभावार्थः । । छ ||
अशवि ते वा || ३ | ४ | ४ ||
[अशवि] न शब् = अशव्, तस्मिन् ।
[ते] तद् प्रथमा जस् । ‘आ द्वेरः' (२।१।४१) द० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'जस इः' (१।४।९) इ । 'अवर्णस्ये० ' (१।२।६) ए ।
गोपायिता इत्यादिषु श्वस्तनी ता, अनेन विकल्पेन आयादयः प्रत्ययाः ।
प्रथमे (गोपायिता', गोप्ता) 'धूगौदितः' (४।४।३८) वेट्, अन्यत्र सर्वत्र (धूपायिता, धूपिता, विच्छायिता, विच्छिता, पणायिता, पणिता, पनायिता, पनिता, कामयिता, कमिता, ऋतीयिता, अर्तिता) 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।।छ।।
गुप्-तिजो गर्हा- क्षान्तौ सन् || ३ | ४ | ५ || गुप्तिज्, तस्मात् ।
[गुप्तिजः ] गुप् च तिज् च =
[ गर्हाक्षान्तौ ] गर्हा च क्षान्तिश्च तत्, तस्मिन् ।
[ सन्] सन् प्रथमा सि ।
गु० ओ ।
[जुगुप्सते] 'गुपि गोपन- कुत्सनयोः' (७६३) गुप् । अत्र वाक्यं न विधीयते । अनेन सन्, ततः 'सन्-यडञ्च' (४।१।३) द्वित्वम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलोपः । 'ग- होर्ज : ' ( ४।१।४० ) गु० जु० | स्वार्थे' (४।४ । ६० ) इग्निषेधः । 'उपान्त्ये' (४ | ३ | ३४ ) इति सन्किद्वत् । गर्हत इत्यर्थः ।
Jain Education Intemational.
१६९
[तितिक्षते] ‘तिजि क्षमा-निशानयोः' (६६७) तिज् । अत्राऽपि वाक्यं न । अनेन सन्प्र० । 'सन्-यडश्च' (४।१।३) द्वित्वम् । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलोपः । 'च-जः क- गम्' (२।१।८६) ज०ग० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) ग० क० । 'नाम्यन्तस्था ० ' (२।३।१५) स० ष० क षसंयोगे क्ष० । सहत इत्यर्थः ।
अन । 'लघोरुपान्त्यस्य' (४।३।४)
[गोपनम् ] गुप् । रक्ष्यते = गोपनम् । 'अनट्' (५।३।१२४) अनट्प्र०
[गोपयति] गुप् । रक्षन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । 'लघोरुपान्त्यस्य' (४।३।४)
गु० ओ ।
P. गोपयतीति, कामैयत इति, ऋतीयत इति । 'णक-तृचौ' (५।१।४८) तृच्प्र० । अनेन आय - णिड्डीयप्र० । गुप्यते-रक्ष्यते इति ।
P.
For Private & Personal Use Only
www.jainelibrary.org