________________
|| अहम् ||
॥ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥
गुपौ-धूप-विच्छि-पणि-पनेरायः ।।३।४।१।। [गुपौधूपविच्छिपणिपनेः] गुपौ च धूपश्च विच्छिश्च पणिश्च पनिश्च = गुपौधूपविच्छिपणिपनि, तस्मात् । [गोपायति] ‘गुपौ रक्षणे' (३३२) गुप् । अनेन आयप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [धूपायति] तपं (३३३) - 'धूप संतापे' (३३४) धूप् । अनेन आयप्र० । [विच्छायति] 'विछत् गतौ' (१३४३) विछ् । अनेन आयप्र० । [पणायति] 'पणि व्यवहार-स्तुत्योः' (७१०) पण् । अनेन आयप० । व्यवहरति स्तौति वेत्यर्थः ।
['न चोपलेभे वणिजां पणायाः' - भट्टिकाव्ये स०३ श्लो०२७] उप 'डुलभिंष प्राप्तौ' (७८६) लभ् । परोक्षा ए। 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) ए । 'पणि व्यवहार-स्तुत्योः' (७१०) पण् । अनेन आयप्र० । पणायतीति । 'भृ-पणिभ्यामिज भुर-वणौ च' (उणा० ८७५) इजप० - वणादेशश्च । पणायन्तीति । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः' (४।३।८२) अलोपः । प्रथमाबहु० जस् ।
[पनायति] ‘पनि स्तुतौ' (७४८) पन् । अनेन आयप्र० । [शतस्य पणते] शत षष्ठी डस् । 'विनिमेय द्यूतपणं पण-व्यवहोः' (२१२१६) वा कर्म । पण् । वर्त० ते ।
'गुपच व्याकुलत्वे' इत्यस्य तु धूपसाहचर्येण निरासः । ननु धूपश्चुरादिरप्यस्ति ? सत्यम् - अणिजन्तविच्छसाहचर्यात् भौवादिकस्यैव धूपस्य ग्रहणम् ।
गुपावित्यौकारो 'गुपि गोपन-कुत्सनयोः' (७६३) इत्यस्य निवृत्त्यर्थः, यङ्लुपनिवृत्त्यर्थश्च ।
[जोगुपीति, जोगोप्ति] 'गुपौ रक्षणे' (३३२) गुप् । भृशं पुनः पुनर्वा गोपायति । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यम० → य । 'सन-यङश्च (४।१।३) “गुप" द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक' (४/१४४) अनादिव्यञ्जनलोपः । 'ग-होर्जः (४।१।४०) ग० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४१४) यड्लोपः । वर्त्त० तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।।छ।।
कमेणिङ् ।।३।४।२।। [कमेः] कमि पञ्चमी डसि । [णिङ्] णिङ् प्रथमा सि ।
[कामयते] 'कमूङ् कान्तौ' (७८९) कम् । अनेन णिप्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ | वर्त० ते । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ॥छ।। जउक्तं च धातुपारायणे-धातुरत्नाकरे - 'ये तु स्तुत्यर्थादेव पणेरायमिच्छन्ति तन्मते व्यवहारार्थात् शवि अपि आयाभावे शतस्य पणते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org