________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[चलयति] 'चल कम्पने' (९७२/१०५५) चल् । चलन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । —ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'घटादेर्ह्रस्वो ० ' ( ४।२।२४) ह्रस्वः ।
१६६
[ कम्पयति ] कथं शिरः कम्पयते युवन्ति (?) (युवा) । णिग् द्वयमत्र ज्ञेयम् । कथं 'कपुङ् चलने' (७५७) कप् । कम्पमानं शिर आत्मा प्रयुङ्क्ते, तमात्मानं यन्त्से (?) (युवा) प्रयुङ्क्ते, इति णिग् द्वयम्, ततो नात्र कम्पनं किन्तु कप (म्प) ना, इति न परस्मै, कम्पमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० ।
[चोपयति शाखाम्] 'चुप मन्दायां' (३४२) चुप् । चोपन्तं प्रयुङ्क्ते ।
[निगारयति] नि ‘गृत् निगरणे' (१३३५) गृ । निगिरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'नामिनोऽकलि-हले:' ( ४|३|५१) आर् ।
[भोजयति ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुञ्जानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[आशयति चैत्रमन्नम् ] 'अशश् भोजने ' (१५५८) अश् । अश्नन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[पय उपयोजयते चैत्रेण] उप 'युपी योगे' (१४७६) युज् । उपयुङ्क्ते चैत्रस्तं उपयुञ्जानं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । लघोरुपान्त्यस्य' (४।३।४) गु० ओ । कारयतीत्यर्थः ।
[ सूत्रमध्यापयति शिष्यम् ] 'इंड्क् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२०) णिग्प्र० इ । 'णौ क्री-जीङ' (४।२।१० ) इ० आ० । 'अर्त्ति -री- व्ली० ' ( ४।२।२१) पोऽन्तः ।
[बोधयति पद्मं रविः ] 'निरनुबन्धग्रहणे सामान्यग्रहणम्' ('सामान्येन' ) ( न्या० स० वक्ष० ( २ ) / सूत्र ( ५ ) ) इति न्यायात् 'बुधृग् बोधने' (९१२) बुध् । 'बुध अवगमने' (९६८) बुध् । 'बुधिं ज्ञाने' (१२६२) बुध्, इति त्रयाणां ग्रहणम् । बुध्यमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ओ । [ योधयति काष्ठानि ] 'युधिंच् संप्रहारे' (१२६०) युध् । युध्यमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
नित्याकर्मकत्वादणि(णिक् ) कर्तुः कर्मत्वम् ।
[प्रावयति राज्यम् ] च्युंङ् (५९४ ) - ज्युंङ् (५९५ ) - जुंङ् (५९६ ) - 'पुंङ् गतौ' (५९७) प्रु । प्रवमाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । 'नामिनोऽकलि हले:' ( ४ | ३ |५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । प्रापयतीत्यर्थः ।
प्राप्तेः सकाशात् चलनमन्यत्, तथाहि - चलनं कायव्यापारविशेषः, प्राप्तेः कारणं स्यन्दनविलयिनेऽपि प्राप्तिविशेषौ । [द्रावयत्ययः ] इं (११) - दुं (१२) - 'दुं गतौ' (१३) द्रु ।' द्रवन्तं प्रयुङ्क्ते । विलाययतीत्यर्थः ।
[स्रावयति तैलम् ] 'सुं गतौ ' (१५) स्रु । स्रवन्तं प्रयुङ्क्ते । तैलं स्पन्दयतीत्यर्थः ।
P.
वुध्यते पद्मं तं बुध्यमानं रविः प्रयुङ्क्ते ।
P. 9. द्रवत्ययः, तत् द्रवत् कश्चित् प्रयुङ्क्ते ।
Jain Education Intemational
P. २. स्रवति तैलं तत् सवदन्यः प्रयुङ्क्ते ।
For Private & Personal Use Only
www.jainelibrary.org