________________
अथ तृतीयाध्यायस्य तृतीयः पादः ।।
१६५
शव्' (३।४।७१) शव । भार्यामुप = संप्राप्य क्रीडति रमयतीति चे(वे)त्यर्थः ।
उपरमति उपरमते वा संतापः] पुनरुपपूर्वोऽप्यकर्मको रमि दर्शयति ।।छ।। .
अणिगि प्राणिकर्तृकानाप्याण्णिगः ।।३।३।१०७।। [अणिगि] न णिग् = अणिग्, तस्मिन् ।
[प्राणिकर्तृकानाप्यात्] 'अन प्राणने' (१०८९) अन्, प्रपूर्व० । प्राणन्ति प्राणिन एभिरिति प्राणाः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'द्वित्वेऽप्यन्तेऽप्यनितेः, परेस्तु वा' (२।३।८१) णत्वम् । प्राणा विद्यन्ते यस्य सः = प्राणी । 'अतोऽनेकस्वरात्' (७।२।६) इन् । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्राणी कर्ता यस्याऽसौ प्राणिकर्तृकः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० → क । न विद्यते आप्यं कर्म यस्याऽसौ अनाप्यः । प्राणिकर्तृकश्चासौ अनाप्यश्च = प्राणिकर्तृकानाप्यस्तस्मात् ।
[णिगः] णिग् पञ्चमी उसि ।।
[आसयति चैत्रम] 'आसिक उपवेशने' (१११९) आस् । आस्ते चैत्रस्तं आसीनं चैत्रं मैत्रः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ ।
[शाययति मैत्रम्] शेते मैत्रः, तं शयानं मैत्रं चैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ।
[स्वयमेवारोहयमाणं हस्तिनं प्रयुङ्क्ते आरोहयते] आरोहन्ति गजं हस्तिपकास्ते एवं विवक्षते न वयमारोहामः, किन्तु आरुह्यते-न्यग्भवति गजः स्वयमेव, तं आरुह्यमाणं-न्यग्भवन्तं हस्तिपकाः प्रयुञ्जते । णिग्प्र० । तत आरोहयन्ति गजं हस्तिपकास्ते एवं विवक्षन्ते, न वयमारोहामः, किन्तु आरोहयते गजः स्वयमेव, तं गजं आरोहयमाणं हस्तिपकः प्रयुङ्क्ते । अन्यः पुनर्णिम् ।
[चेतयमानं प्रयुक्ते = चेतयति] 'चितुण स्मृत्याम्' (१६४५) चित् (?)। ('चितिण संवेदने' (१८२६) चित्) । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । चेतयमानं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । ‘णेरनिटि' (४।३।८३) णिच्लोपः । अनेन परस्मैपदम् ।
[शोषयते व्रीहीनातपः] 'शुषंच शोषणे' (१२०८) शुष । शुष्यन्ति आतपे व्रीहयः, तान् व्रीहीन् शुष्यत आतप एव प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । अनेन न ।
कटं कारयते] 'डुकंग करणे' (८८८) कृ । कुर्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० →इ, अनेन न ।
अणिगवस्थायां प्राणिकर्तृकानाप्याण्णिजन्तान्मा भूत, चेतयते 'ई-गितः' (३।३।९५) इत्यात्मनेपदस्यापवादोऽयम् ॥छ।।
चल्याहारार्थेङ्-बुध-युध-पु-द्रु-स-नश-जनः ।।३।३।१०८।। [चल्याहारार्थेड्बुधयुधपुद्रुघ्नशजनः] 'चल कम्पने' (९७२/१०५५) चल । चलतीति । 'इ-कि-श्तिव स्वरूपाऽर्थे' (५।३।१३८) इति धात्वर्थे इष्वत्यायो न स्वरूपेणेत्याह-चलिश्च आहारश्च = चल्याहारौ, चल्याहारावर्थो येषां ते = चल्य चल्याहारार्थाश्च इङ् च बुधश्च युधश्च पुश्च द्रुश्च स्रुश्च नशश्च जन् च = चल्याहारार्थेबुधयुधपुद्रुसुनशजन्, तस्मात् ।
चलिलक्षणोऽर्थः कः कम्पनमनया युक्त्या यातीति षष्ठया न व्याख्येयम् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org