________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
'अघोषे प्रथमोऽशिट : ' (१।३।५० ) छ० च० । संबध्नाति - उत्पाटयति-दीर्घीकरोतीत्यर्थः ।
[वैद्यश्चिकित्सामुद्यच्छति] वैद्य प्रथमा सि । 'कित निवासे' (२८६) कित् । 'कितः संशय-प्रतीकारे' ( ३।४।६) सन्प्र० । ‘सन्-यडश्च' (४।१।३) कित् सउं द्विर्वचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) तलोपः । 'क-डश्च- ञ्' (४।१।४६) क० च० । चिकित्स्यते अस्याः । ' शंसि - प्रत्ययात् ' ( ५|३|१०५) अप्र० तदा बाहुलकात् स्त्रीत्वं आप्, सा चासौ ग्रन्थश्च चिकित्साग्रन्थस्तस्मिन् उद्यमं करोतीत्यर्थः ॥ छ ॥
पदान्तरगम्ये वा || ३ | ३ ।९९ ।।
[ पदान्तरगम्ये] एकस्मात् पदादन्यत्पदं = पदान्तरम्, पदान्तरेण गम्यते = पदान्तरगम्यः । शकि- तकि- चति-यति-शसिसहि-यजि-भजि-पवर्गात्' (५।१।२९) यप्र०, तस्मिन् । 'परिमुहा ऽऽयमा० ' ( ३ । ३ । ९४ ) इत्यादि सूत्रं पञ्चकस्य क्रमेणोदाहरणानि दर्शयति (न्ति) || छ ||
शेषात् परस्मै || ३ | ३ | १००॥
[शेषात् ] शेष पञ्चमी इसि ।
[परस्मै] परार्थं पदं परस्मैपदम् । 'ते लुग्बा' (३।२।१०८) पदलोपः । अयमपि प्रत्ययनियमो न प्रकृतिनियम इति दर्शयति पूर्वप्रकरणेत्यादिनेति अनुबन्धोपलक्षिताः प्रकृतयो गृह्यन्ते इति क्रमेणोदाहरति
=
१६३
[बोभवीति] 'भू सत्तायाम्' (१) भू । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य०य । ‘सन्-यडश्च' (४।१।३) भू सउं द्वित्वम् । 'ह्रस्वः' (४।१।३९) ह्रस्वत् । 'द्वितीय - तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । 'य-तु-रु- स्तोर्वहुलम्' (४।३।६४) → ई० । ‘नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
Jain Education Intemational
[दीव्यति] 'दिवूच् क्रीडा-जयेच्छा - पणि-द्युति-स्तुति-गतिषु ' (११४४ ) दिव् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र० → य । ‘भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
[मन्तूयति ] ' मन्तु रोष - वैमनस्ययोः' (१९९६) मन्तु इति सूत्रोऽयं धातुः । धातोः कण्ड्वादेर्यक्' ( ३।४१८) यक्प्र० → य । 'दीर्घश्च्वि० ' ( ४ | ३ | १०८) दीर्घः ।
[आगच्छति] आगच्छतीत्यत्र 'समो गमृच्छि-प्रच्छि- श्रु-वित्-स्वरत्यर्त्ति दृशः ' ( ३।३।८४) ।
[ करोति ] करोतीत्यत्र 'गन्धना - ऽवक्षेप-सेवा- साहस-प्रतियत्न-प्रकथनोपयोगे' ( ३।३।७६ ) । [नयति ] नयतीत्यत्र 'पूजा ऽऽचार्यक-भृत्युत्क्षेप- ज्ञान-विगणन-व्यये नियः' ( ३।३।३९) ।
[गृहे संचरति ] गृहे संचरत्यत्र 'समस्तृतीयया' (३।३।३२) ।
[ साधु पदं कारयति ] अत्र 'मिथ्याकृगोऽभ्यासे' (३।३।९३) ।
[मुमूर्षति ] 'मृत् प्राणत्यागे' (१३३३) मृ । मर्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ओष्ट्यादुर्' (४|४|११७) मुर् । 'सन्-यङश्च' (४।१।३) “मुर् 'द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलोपः । ' भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् ।।छ।
For Private & Personal Use Only
www.jainelibrary.org