SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । णिगर्थ एवेत्यत्र अनेकार्थत्वाद्धातूनां तिरस्कारपूर्वको व्यापारः, प्रेषणा-सत्कारपूर्वको व्यापारोऽध्येषणा प्रतिविधानमित्यपरं नाम यस्य [पचते] पाचयतीत्यर्थः । केशश्मश्रु वपते] केशाश्च श्मश्रूणि च = केशश्मश्रु । द्वितीया अम् । 'प्राणि-तूर्याङ्गाणाम्' (३।१।१३७) इत्येकत्वं एव ते वापयति मुण्डयतीत्यर्थः । वेदो वैधयं विधत्ते वेद प्रथमा सि । धर्म । धर्मादनपेतम् । 'हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्यजन्य-धर्म्यम्' (७।१।११) धर्म्यनिपातः । द्वितीया अम् । विधत्ते = विधापयतीत्यर्थः । यदाहुः - क्रीणीष्व वपते धत्ते, मिनुते चिनुतेऽपि च । आप्तप्रयोगा दृश्यन्ते, येषु ण्यर्थोऽभिधीयते ॥१॥ ॥छ।। ज्ञोऽनुपसर्गात् ।।३।३।९६।। [ज्ञः] ज्ञा पञ्चमी डसि । ‘लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [अनुपसर्गात् न विद्यते उपसर्गो यस्य सः = अनुपसर्गस्तस्मात् । अकर्मकात् 'ज्ञः' (३।३।८२) इति सूत्रेण सिद्धे सकर्मकार्थं वचनम् । [गां जानीते] गो द्वितीया अम् । 'आ अम्-शसोऽता' (१।४।७५) आ । 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्तक ते । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । —जा ज्ञा-जनोऽत्यादौ' (४।२।१०४) जा | ‘एषामी व्यञ्जनेऽदः' (४।२।९७) ई । [अश्वं जानीते] अश्व द्वितीया अम् । जानीते पूर्ववत् ।।छ।। वदोऽपात् ।।३।३।९७।। [वदः] वद् पञ्चमी डसि । [अपात्] अप पञ्चमी डसि । [एकान्तमपवदते एकान्त द्वितीया अम् । अप ‘वद व्यक्तायां वाचि' (९९८) वद् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । स्वर्गापवर्गादिकं कथयन्नेकान्तं निराकरोतीत्यर्थः । [अपवदति परं स्वभावतः] स्वकीयो भावः = स्वभावः । स्वभावान्(त्) = स्वभावतः । 'आद्यादिभ्यः' (७।२८४) तसुप्र० → तस् ।छ।। समुदाडे यमेरग्रन्थे ।।३।३।९८।। [समुदाङः] सम् च उद् च आङ् च = समुदाङ्, तस्मात् । [यमेः] यमि पञ्चमी डसि । [अग्रन्थे] न ग्रन्थोऽग्रन्थस्तस्मिन् । [संयच्छते व्रीहीन्, उद्यच्छते भारम्, आयच्छते वस्त्रम्] सम्-उत्-आङ् 'यमूं उपरमे' (३८६) यम् । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६) म० → छ० । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy