SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ।। १६१ [वस्ते मैत्रो न नग्नः] 'वसिक् आच्छादने' (१११७) वस् । वर्त्त० ते । → इ । 'ञ्णिति' (४।३।५०) [वासयति मैत्रम् वसन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० उपान्त्यवृद्धिः ।।छ।। ई-गितः ।।३।३।९५।। [ईगितः] ईश्च ग् च = ईगौ, ईगावितावनुबन्धौ यस्याऽसौ ईगित्, तस्मात् । [यजते] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [लक्षयते] लक्षीण दर्शना-ऽङ्कनयोः' (१७१९) लक्ष् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [बिभृते] 'टुडु,गक पोषणे च' (११४०) भृ । वर्त्त० ते । 'हवः शिति' (४।१।१२) भृ सउं द्वित्वम् । 'ऋतोऽत्' (४।१।३८) भृ० → भ० । 'पृ-भृ-मा-हाङामिः' (४।१।५८) इ । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । [कण्डूयते] 'कण्डूग गात्रविघर्षणे' (१९९१) कण्डू, सू(सौ)त्रोऽयं धातुः । 'धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प्र० → य । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [गमयते] अम (९३२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । गच्छन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदेतोऽयाय्' (१।२।२३) अय् ।। [चोरयति] 'चुरण स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [यजन्ति याजकाः] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजन्तीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा जस् । 'अत आ स्यादौ जस्-भ्याम्-ये' (१।४।१) आ । 'समानानां०' (१।२।१) दीर्घः । ‘सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [पचन्ति पाचकाः] 'डुपचींष् पाके' (८९२) पच् । पचन्तीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा जस् । 'अत आ स्यादौ०' (१।४।१) आ । 'समानानां०' (१।२।१) दीर्घः । ‘सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [कुर्वन्ति कर्मकराः] कर्म ‘डुकृग् करणे' (८८८) कृ । कर्म-कर्माणं वा कुर्वन्तीति कर्मकराः । 'भृतौ कर्मणः' (५।१।१०४) टप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । प्रथमा जस् । शेषं पूर्ववत् । [शोषयते व्रीहीनातपः] 'शुषंच शोषणे' (१२०८) शुष् । शुष्यन्त्यातपे वीहयः, तान् वीहीन् शुष्यतोऽनुकूलाचरणेनातप एव प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । शोषणक्रियाफलं हि तदुपयोगयोगयोगिनौ वीहिस्वामिन एव न त्वातपस्येति असद्विवक्ष(क्ष्य)ते । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy