________________
अथ तृतीयाध्यायस्य तृतीयः पादः ॥
मुण्डो बेभाययति मुण्ड प्रथमा सि । जिभीक भये' (११३२) भी । भृशं पुनः पुनर्वा बिभेति । व्यञ्जनादेरेकस्वरांद' (३।४।९) यङ्प्र० → य । 'सन्-यश्च' (४।१३) भी सउं द्वित्वम् । 'हस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४१।४२) भ० → ब० । 'आ-गुणावन्यादेः' (४।१।४८) ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । बि(वे)भेति बि(बे)भयीति वा जनस्तं वि(बे)भयन्तं(तं) मुण्डः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय ।।छ।।
मिथ्याकृगोऽभ्यासे ।।३।३।९३।। [मिथ्याकृगः] मिथ्यायुक्तः कृग् = मिथ्याकृग, तस्मात् । मयूरव्यंसकादित्वात् युक्तशब्दलोपः । यद्वा मिथ्याशब्द: 'सहार्थे' (२१२।४५) तृतीयैकवचने 'लुगाऽऽतोऽनापः' (२।११०७) इत्यालोपः । 'अव्ययस्य' (३।२७) इति टालोपो वा, तदा युक्तार्थस्तृतीयैव कथ्यते ।
[अभ्यासे] 'असूच क्षेपणे' (१२२१) अस्, अभिपूर्व० । अभ्यसनमभ्यासः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धि: आ, तस्मिन् ।
अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः ।
[पदं मिथ्या कारयते] 'पदिंच गतौ' (१२५७) पद् । पद्यते गम्यतेऽर्थोऽनेनेति पदम् । 'वर्षादयः क्लीबे' (५।३।२९) अल्प० → अ । द्वितीया अम् । मिथ्या क्रियाविशेषणात्' (२।२।४१) अम् । 'अव्ययस्य' (३।२१७) अम्लोपः । कुर्वन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । अत्र कृताभीक्ष्ण्यार्थे द्विवचनस्य वाक्यस्यैकदेशोऽयमुक्तः, प्रयोगस्त्वेवं कर्त्तव्यः - पदं मिथ्या कारयति, पदं मिथ्या कारयते कश्चित् स्वरादिदोषदुष्टमुच्चरति, तं सभायामुपहासार्थं कश्चित् खलो वदति, पुन—हि पुनर्ब्रहीति स एवमुच्यते, स्वमते तु द्विर्वचनं भवत्येव, यतः शक्तिस्वाभाव्यात् केवलेनात्मना पदेनाभ्यासो वक्तुं न शक्यते, यथा भोजं भोजं व्रजतीत्यादावाभीक्ष्ण्ये आगतोऽपि ख्णम् द्विवचनमाकांक्षतीति पदं मिथ्या कारयते इति प्रयोगो ज्ञेयः, वृत्तौ तु एकदेशेनोदाहारि ।
[पदं मिथ्या वाचयति] 'वचंक भाषणे' (१०९६) वच् । वचन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० → इ । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । वर्त० तिव । 'कर्त्तर्यनदभ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ॥छ।।
परिमुहा-5ऽयमा-ऽऽयस-पा-ट्धे-वद-वस-दमा-ऽऽद-रुच-नृतः फलवति ।।३।३।९४।। [परिमुहाऽऽयमाऽऽयसपाट्धेवदवसदमाऽऽदरुचनृतः] परिमुहश्च आयम् च आयस् च पाश्च +ट्धे च वदश्च वसश्च दमश्च अदश्च रुचश्च नृच्च = परिमुहाऽऽयमाऽऽयसपाट्धेवदवसदमाऽऽदरुचनृत्, तस्मात् ।
[फलवति] पल (९८२) - ‘फल गतौ' (९८३) फल । फलतीति । 'अच्' (५।११४९) अच्प्र० → अ । *फलमस्याऽस्तीति फलवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तो०' (२११९४) म० → व०, तस्मिन् ।
P.म परिमुह च । P. + टधेश्च । P. * फलं विद्यते यस्य सः = फलवान् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org