________________
अथ तृतीयाध्यायस्य तृतीयः पादः ।।
१५७
अर्चा- [जटाभिरालापयते] 'अर्च(र्चि)ण पूजायाम्' (१९५४) अर्च् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ | अर्चणं = अर्चा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । ‘णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । जटा तृतीया भिस् । 'लीड्च् श्लेषणे' (१२४८) ली । 'लींश् श्लेषणे' (१५२६) ली, आङ्पूर्व० । 卐आलीयन्तं +आली(लि)नन्तं वा प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० → इ । अनेन आकारः । 'अर्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । परैरात्मानं पूजयतीत्यर्थः ।
[श्येनो वर्तिकामपलापयते] 'वृतूङ् वर्त्तने' (९५५) वृत् । वर्त्तते । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक | 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'वौ वर्तिका' (२०४११०) इ । 'आत्' (२।४।१८) आप्प्र० → आ । अपलीयमानं अपली(लि)नन्तं वा प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० → इ । अनेन ई० → आ० । 'अर्त्ति-री-व्ली०' (४।२।२१) पोऽन्तः । वर्त्त० ते । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । अभिभवतीत्यर्थः ।
कस्त्वामुल्लापयते किम् प्रथमा सि । 'किमः कस्तसादौ च' (२११४४०) किम्० → क० । 'सो रुः' (२११७२) स० → र० । युष्मद् द्वितीया अम् । 'लोकात्' (१1१३) अद् अग्रे विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२११११) त्वादेशः । 'अमौ मः' (२।१।१६) अम्० → म्० । 'युष्मदस्मदोः' (२।१।६) द० → आ० । 'समानानां०' (१।२।१) दीर्घः । उत् 'लीड्च् श्लेषणे' (१२४८) ली । उल्लीयसे, तं उल्लीयमानं कः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र०
→ इ । अनेन ई० → आ० । 'अर्ति-री-ब्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । वश्चयत इत्यर्थः ।
[बालकमुल्लापयति] उल्लीयते उल्लिनाति वा कश्चित्, तं उल्लीयन्तं(मान) उल्लिनन्तं वा अन्यः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० → इ । 'अति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । 'धुटस्तृतीयः' (२।१७६) त० → द० । 'लि लौ' (१।३।६५) दस्य ल० । आत्ममेपदाभावे आत्वस्याऽप्यभावः प्राप्नोति तस्यप्ये(?) भ्वादिष्वेव विधानादित्याशंकाथ कथं तात्वम् ?, 'लीङ्-लिनोर्वा' (४।२।९) इति चतुर्थाध्यायद्वितीयपादसूत्रेण भविष्यति ।
जटाभिरालाप्यते जटिलेन] आलीयते आलिनाति वा कश्चित्, तं आलीयमानं आलिनन्तं वा अन्यः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० →इ । अनेन ई० → आ० । 'अर्ति-री-व्ली०' (४।२।२१) पोऽन्तः । वर्त्तः ते । 'क्यः शिति' (३।४।७०) क्यप्र० →य । ‘णेरनिटि' (४३८३) णिगलोपः । डिच्छनानिर्देशो यौजादिक 'लीण द्रवीकरणे' (१९४२) इत्यस्य निवृत्त्यर्थः ।।छ।।
स्मिङः प्रयोक्तुः स्वार्थे ।।३।३।९१।।
[स्मिङः] स्मिङ् पञ्चमी डसि । [प्रयोक्तुः] प्रयोक्तृ पञ्चमी इसि । 'ऋतो डुर्' (१।४।३७) डुर् । [स्वार्थे ] स्वश्चासावर्थश्च = स्वार्थस्तस्मिन् ।
तत्पुरुषो वा कार्यः ।
P. आलीयते कश्चित्, तं आलीयमानं जटिलः प्रयुङ्क्ते । P. + आलिनाति कश्चित्, तं आलिनन्तं जटिलः प्रयुङ्क्ते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org