________________
१५६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[आरोहयते हस्ती स्वयमेव] 'रुहं जन्मनि' (९८८) रुह्, आपूर्व० । आरोहति हस्तिपकः, स एवं विवक्षिते नाहं आरोहामि, किन्तु आरुह्यते हस्ती स्वयमेव, तं हस्तिनमारुह्यमाणं हस्तिपकः प्रयुङ्क्ते । आरोहयति हस्तिनं हस्तिपकः स एवं विवक्षिते नाह आरोहयामि, अपि तु आरोहयते हस्ती स्वयमेव इत्यादौ कर्मस्थक्रियात्वात् 'एकधातौ कर्मक्रिययैकाऽकर्मक्रिये' (३।४।८६) इत्यनेनैवात्मनेपदं भवति ।
[आरुहाते हस्ती स्वयमेव] आरुह्यते हस्ती स्वयमेव इत्यस्यां प्रकृतौ भवः प्राकृतोऽर्थः न्यग्भवनलक्षण: णिज् इति मतान्तरेण, स्वमते तु णिग् इति ॥छ।।
प्रलम्भे गृधि-वञ्चेः ।।३।३।८९।।
[प्रलम्भे] प्र 'डुलभिंष प्राप्तौ' (७८६) लभ् । प्रलम्भनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'उपसर्गात् खत्योश्च' (४।४।१०७) नोऽन्तः । सप्तमी ङि ।
[गृधिवञ्चः] गृधिश्च वशिश्च = गृधिवशि, तस्मात् ।
वचने प्रतारणे मिथ्याफलाख्याने इति यावत् ।
[बटुं गर्धयते] 'गृधौ(धू)च् अभिकाङ्क्षायाम्' (११८७) गृध् । गृध्यति वञ्चनायोग्यो भवति बटुस्तं ॥ गृध्यन्तमन्यः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । नित्याकर्मकत्वादणि(क)कर्तुः कर्मत्वम् ।
बटुं वञ्चयते] 'वञ्चिण प्रलम्भने' (१८०५) वश् । 'चुरादि०' (३।४।१७) णिजि(चि) सिद्धं णिगन्तस्य तु विध्यर्थम् । वश(योति(ते) बटुस्तं वञ्चयन्तमन्यः(?) वञ्चयमानमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० → इ । प्रतारयतीत्यर्थः ।
श्वानं गर्धयति] श्वन् द्वितीया अम् । 'नि दीर्घः' (१।४।८५) दीर्घः आ । गर्धयति-विलोभयतीत्यर्थः । अत्र फलवत्त्वेऽपि नात्मनेपदम्, 'अणिगि प्राणिकर्तृकानाप्याण्णिगः' (३।३।१०७) निषेधात् ।
[अहिं वञ्चयति अहि द्वितीया अम् । वशयति गमयतीत्यर्थः ।।छ।।
___ लीङ्-लिनोऽर्चा-ऽभिभवे चाऽऽच्चाऽकर्त्तर्यपि ।।३।३।९०।। [लीङ्लिनः] + लीङ् च लिन् च = लीङ्लिन्, तस्मात् ।
[अर्चाऽभिभवे] अभिभवनं = अभिभवः । 'भू-यदोऽल' (५।३।२३) अलप्र० → अ | अर्चा च अभिभवश्च = अर्चाऽभिभवम्, तस्मिन् ।
[च] च प्रथमा सि । [आत्] आत् प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । [अकर्तरि न कर्ता = अकर्ता, तस्मिन् = अकर्तरि, सप्तमी ङि ।
[अपि] अपि प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । P. यजमानः । P. + लीङ् च लिनाश्च - लीलिनाः, तस्मात् = लीङ्लिनः । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org