SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ १५५ [दर्शयति प्रदीपो भृत्यान्] 'दृशुं प्रेक्षणे' (४९५ ) दृश् । पश्यन्ति भृत्याः प्रदीपेन, तान् पश्यतोऽनुकूलाचरणेन प्रदीप एव प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । अत्र प्रदीपो भास्वरतया दर्शकः पुरुषान् प्रयुङ्क्ते इति विवक्षायां णिग् अकर्मकत्वे वा कर्मणेति कर्तुर्विकल्पेन कर्मत्वम्, सकर्मकत्वे तु 'गति-बोधा ऽऽहारार्थ० ' (२।२।५) इति कर्तुर्नित्यं कर्मत्वं ज्ञेयम् । अत्राऽऽत्मनेपदं भवत्येव णिग् इति गकारानुबन्धग्रहणात् । [लावयति केदारं चैत्रः ] लुनाति केदारं चैत्रः, स एवं विवक्षिते नाहं लुनामि, अपि तु लूयते केदारः स्वयमेव तं केदारं लूयमानं चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'नामिनोऽकलि-हले:' (४।३।५१) वृ० औ । नित्याऽकर्मकत्वात् ‘गति - बोधा० ' (२।२।५) इति अणिक्कर्तुः कर्मत्वम् । [ आरोहन्ति हस्तिनं हस्तिपकाः, तानेनमारोहयति महामात्रः ] आरोहन्ति हस्तिनं हस्तिपकास्तान् हस्तिपकान् हस्तिनमारोहतो महामात्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । अत्राऽणिक्कर्मणो न णिगि सति कर्तृत्वं न महामात्रस्य कर्तृत्वं न हस्तिकात् (?) ( पकान् ) इत्यर्थः । [आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयते हस्ती] तानारोहयते हस्ती आरोहति (न्ति) हस्तिनं हस्ति ( प )कास्तान् आरोहमाणान् हस्ती प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । णिगः प्राग् आत्मनेपदं मा भूदित्यर्थः । [स्मरयत्येनं वनगुल्मः ] 'स्मृ चिन्तायाम् ' (१८) स्मृ । स्मरति वनगुल्मं कोकिलः, तं कोकिलं वनं स्मरन्तमनुकूलाचरणेन वनगुल्मः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । 'नामिनोऽकलि हले:' ( ४।३।५१) वृ० आर् । ' घटादेहस्वो दीर्घस्तु वा जि- णम्परे' (४।२।२४) ह्रस्वः । [ घातयत्यात्मा ] 'हनंक हिंसा - गत्योः' (११००) हन् । हन्ति अन्तरात्मानं बाह्यं वा चौरस्य राजा, तमेकं घ्नन्तमपरो बाह्यः अन्तरो वा प्रयुङ्क्ते इति युक्तिः, अत्र अपरो बाह्यः शारीरलक्षणः, आत्मा-ज्ञान- माया- जीवश्चान्तर इति । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । ञ्णिति घात्' (४।३।१००) " घात्" आदेशः । [ शोषयते व्रीहीनातपः ] 'शुषंच् शोषणे' (१२०८) शुष् । शुष्यन्त्यातपे व्रीहयः, तान् व्रीहीनातपे शुष्यतोऽनुकूलाचरणेनाऽऽतप एव प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० इ । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० ओ । कृषीवल्यादेः प्रशंसादिकं फलं फलवत्कर्त्तरि भविष्यति, रुहिरास्कन्दने वर्त्तन आरोहन्ति आस्कन्दन्ति विलगन्ति उत्कंसन्ति (ते) इत्यर्थः । [लावयते केदार: ] 'लूग्श् छेदने ' (१५१९) लू । लुनाति केदारं चैत्रः, स एवं विवक्षिते नाहं लुनामि, किन्तु लूयते केदारः स्वयमेव, तं केदारं लूयमानं चैत्रः प्रयुङ्क्ते । लावयति केदारं चैत्रः, स एवं विवक्षिते नाहं लावयामि, अपितु व केदारः स्वयमेव । [ भूषयते कन्या ] 'भूष अलंकारे' (१७५६) भूष् । भूषयति कन्यां चैत्रः, स एवं विवक्ष्यते नाहं भूषयामि, किन्तु भूष्यते कन्या स्वयमेव, तां भूषयमाणां चैत्रः प्रयुङ्क्ते । भूषयते कन्यां चैत्रः, स एवं विवक्ष्यते नाहं भूषयामि, अपि तु भूषयते कन्या स्वयमेव । [कारयते कटः ] 'डुकुंग् करणे' (८८८) कृ । करोति कटं चैत्रः, स एवं विवक्षिते नाहं करोमि, किन्तु क्रियते कटः स्वयमेव । [ गणयते गणः ] ' गणण् संख्याने' (१८७४) गण । 'चुरादि०' (३।४।१७) णिच्प्र० इ । गणयति गणं गोपालकः, स एवं विवक्षिते नाहं गणयामि, किन्तु गण्यते केदार: (?) ( गणः) स्वयमेव, तं गणं गण्यमानं गोपालकः प्रयुङ्क्ते । गणयति गणं गोपालकः, स एवं विवक्षिते नाहं गणयामि अपि तु गणयते गणः स्वयमेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy