________________
१५४
[ वहति नदी] स्पन्दते इत्यर्थः । स्पन्दनाऽर्थे तु वहो ऽकर्मकः ||छ ||
अणिक्कर्मणिक्कर्तृकाण्णिगोऽस्मृतौ || ३ | ३ |८८ ||
अणिक्कर्म |
[अणिक्कर्म] न णिग् = अणिग् । 'नञत्' ( ३।२।१२५) न० अ० । अणिगि कर्म = [णिक्कर्तृकात्] णिगि कर्त्ता यस्याऽसौ णिक्कर्तृकस्तस्मात् । 'ऋन्नित्यदितः' (७।३।१७१ ) कच्प्र० → क । [णिगः ] णिग् पञ्चमी इसि ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[अस्मृतौ ] न स्मृतिरस्मृतिः । 'नञत्' ( ३।२।१२५) न० अ० तस्याम् (१।४।२५) ङि ङौ । ' डित्यन्त्यस्वरादेः ' (२।१।११४ ) इलोपः ।
[आरोहयते हस्ती हस्तिपकान्] 'रुहं जन्मनि' (९८८) रुह्, आड्यूर्व० । आरोहन्ति हस्तिनं हस्ति ( प ) काः, तान् हस्ति ( प ) कान् हस्तिनमारोहतः अनुकूलाचरणेन हस्त्येव प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० इ । ‘लघोरुपान्त्यस्य’ (४।३।४) गु० ओ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३ ) अय् । हस्त । हस्तोऽस्याऽस्तीति । 'हस्त - दन्त - कराज्जातौ ' ( ७।२।६८) इन्प्र० । ‘अवर्णेवर्णस्य’ (७।४।६८) अलोपः । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्यो' (१।४।८७) दीर्घः । ' दीर्घड्याव्०' (१।४।४५) सिलोपः । ‘नाम्नो नोऽननः ' (२।१।९१) नलोपः । हस्ति ( प ) क द्वितीया शस् । 'शसोऽता सश्च नः पुंसि ' (१।४।४९) स० → न० - दीर्घश्च । आस्कन्दयते इत्यर्थः । हस्तिन उपरि आगच्छन्ति ते तान् आत्मन उपरि हस्ती आगमयतीत्यर्थः । अत्राप्यनेनैवाऽऽत्मनेपदम् ।
अस्मृतौ । सप्तमी ङि । 'डिर्डी'
[दर्शयते राजा भृत्यान् भृत्यैरिति वा ] 'दृशृं प्रेक्षणे' ( ४९५) दृश् । पश्यन्ति राजानं भृत्यास्तान् भृत्यान् राजानं पश्यतोऽनुकूलाचरणेन राजैव प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । लघोरुपान्त्यस्य' (४।३।४ ) ० अर् । वर्त्तते । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
[पाययते मधु पायकान् ] 'पां पाने' (२) पा । पिबन्ति मधु पायकाः, तान् पायकान् मधुपिवतोऽनुकूलाचरणेन मध्वेव प्रयुङ्क्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प्र० इ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । एदैतोऽयाय् ' (१।२।२३) आय् (?) (‘पा-शा-छा-सा-वे-व्या हो यः' (४।२।२० ) योऽन्तः ।) वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[आरोहयन्ति महामात्रेण हस्तिपकाः ] 'रुहं जन्मनि' (९८८) रुह्, आड्यूर्व० । आरोहन्ति हस्तिनं हस्तिपकाः, तान् हस्तिपकान् हस्तिनमारोहतो महामात्रः प्रयुङ्क्ते । णिग्प्र० । तं महामात्रमारोहयन्तमनूकूलाचरणेन हस्तिपकाः प्रयुञ्जते । पुनरपि णिग् । ‘णेरनिटि’ (४।३।८३) पूर्वणिग्लोपः । ततो ' गति - बोधा० ' (२।२।५ ) इत्यादिना न कर्मत्वं कर्तुः । वर्त्त० अन्ति । ‘कर्त्तर्यनद्भ्यः शव्’ (३।४।७१ ) शब् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
[गणयते गणो गोपालकम् ] 'गणण् संख्याने' (१८७४ ) गण । चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । ‘अतः’ (४।३।८२) अलोपः । गणयति गणो ( णं) गोपालकः, तं गोपालकं गणं गणयन्तमनूकूलाचरणेन गोपालः (?) ( गणः ) प्रयुङ्क्ते । प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिगप्र० इ ।
Jain Education Intemational
P. णिगि कर्त्ता - णिक्कर्त्ता । अणिगवस्थायां यत् कर्म तदेव णिगवस्थायां कर्त्ता यस्य सोऽणिक्कर्मणिकर्तृकः । 'शेषाद् वा' (७।३।१७५) कच्प्र० क । तस्मात् ।
For Private & Personal Use Only
www.jainelibrary.org