SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ साधु दान्ताः शोभनं वल्गन्तीत्यर्थः । [ओदनस्य पूर्णाश्छात्रा विकुर्वते] ओदन षष्ठी डस् । पूर्ण प्रथमा जस् । छात्र प्रथमा जस् । विकुर्वते । निष्फलं चेष्टन्त इत्यर्थः । [क्रोष्टा विकुरुते स्वरान्] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश् । क्रोशतीति । 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसिसिसच्यविभा-धागा-ग्ला-म्ला हनि-हा-या-हि- क्रुशि-पूभ्यस्तुन्' (उणा० ७७३ ) तु प्र० । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ओ । 'यज-सृज- मृज- राज० ' (२।१।८७) श० ष० । ' तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० । पूर्वं 'क्रुशस्तुनस्तृच् पुंसि' (१।४।९१) तृजादेशः । प्रथमा सि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८४) सि० डा० आदेशः । ‘डित्यन्त्यस्वरादेः' (२।१।११४ ) ऋलोपः । विकुरुते स्वरान् । नानोत्पादयतीत्यर्थः । [विकरोत्यध्यायं, विकरोति शब्दम् ] विनाशयतीत्यर्थः ॥ छ || आडो यम-हनः, स्वेऽङ्गे च ||३|३|८६|| [आङ: ] आङ् पञ्चमी इसि । [यमहनः ] यमश्च हन् च = यमहन् तस्मात् । [स्वे ] स्व द्वितीया अम् (?) (सप्तमी ङि) । [अङ्गे] अङ्ग सप्तमी ङि । [च] च प्रथमा सि । [आयच्छते ] 'यमूं उपरमे' (३८६) यम्, आड्यूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'गमिषद्यमश्छः ' (४।२।१०६) म० छ० । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिट ' (१।३।५०) छ० च० । [आहते] ‘हनंक् हिंसा-गत्योः ' (११००) हन्, आङ्पूर्व० । वर्त्त० ते । ' यमि-रमि- नमि-गमि-हन-मनि-वनति-तनादेर्धुटि क्ङिति' (४/२/५५) नलोपः । [आयच्छते पादम् ] आयच्छते पूर्ववत् । दीर्घीकरोतीत्यर्थः । [ आहते शिरः ] आहते पूर्ववत् । ताडयतीत्यर्थः ॥ छ Jain Education International १५३ व्युदस्तपः || ३ | ३ |८७ ॥ [व्युदः] विश्च उद् च व्युद्, तस्मात् । [तपः] तप् पञ्चमी ङसि । [वितपते उत्तपते रविः] वि-उत् 'तपं संतापे' (३३३) तप् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । दीप्यत इत्यर्थः । [वितपते उत्तपते पाणिम् ] वितपते पाणिम् । उत्तपते पाणिम् । तापयतीत्यर्थः । [निष्टपति ] निर्-तपति । 'निसस्तपेऽनासेवायाम् ' (२।३।५५ ) षत्वम् । [वितपति पृथिवीं सविता] संतापयतीत्यर्थः । [उत्तपति सुवर्णं सुवर्णकारः ] द्रवीकरोतीत्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy