SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ठिका । अ । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) छ० → च० । [समृच्छिष्यते] सम्-ऋच्छ् । भविष्यन्ती स्यते । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [संपृच्छते] सम् ‘प्रछत् ज्ञीप्सायाम्' (१३४७) प्रछ् । वर्त्त० ते । 'तुदादे: शः' (३।४।८१) शप्र० → अ । 'ग्रहव्रस्च-भ्रस्ज-प्रच्छः' (४1१1८४) यवृत् प्र० → पृ० । 'स्वरेभ्यः' (१।३।३०) छस्य द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१३५०) छ० → च० । [संशृणुते] सम् 'श्रृंट् श्रवणे' (१२९६) श्रु । वर्त० ते । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । 'श्रौति-कृवुधिवु-पा०' (४।२।१०८) श्रु० → शृ० । रघुवर्णान्नो ण०' (२।३।६३) न० → ण० । नित्यपरस्मैपदिभिः साहचर्यात ज्ञानार्थस्यैव विदेर्ग्रहणम्[संवित्ते] सम् ‘विदक् ज्ञाने' (१०९९) विद् । वर्त० ते । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । [संस्वरते] सम् ‘औस्वृ शब्दोपतापयोः' (२१) स्वृ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अर्तीति सामान्यनिर्देशात् भ्वादिरदादिश्च गृह्यते [समृच्छते] सम् ‘कं प्रापणे च' (२६) ऋ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु०' (४।२।१०८) ऋ० → ऋच्छ० । [समियते] सम् ‘ऋक् गतौ' (११३५) ऋ । वर्त० ते । 'हवः शिति' (४।१।१२) 'ऋ'' सउं द्वित्वम् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'पृ-भृ-मा-हाडामिः' (४।१।५८) अ० → इ० । 'पूर्वस्याऽस्वे स्वरे योरियुक्' (४।१।३७) "इय्' आदेशः । [संपश्यते] सम् ‘दृशुं प्रेक्षणे' (४९५) दृश् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवुपा०' (४।२।१०८) पश्य आदेशः ।।छ।। वेः कृगः शब्दे चानाशे ।।३।३८५।। [वः] वि पञ्चमी उसि । [कृगः] कृग् पञ्चमी डसि । [शब्दे] शब्द सप्तमी ङि । [च] च प्रथमा सि । [अनाशे] न नाशोऽनाशः । 'अन् स्वरे' (३।२।१२९) अन्, तस्मिन् । [विकुर्वते सैन्धवाः] 'डुकंग करणे' (८८८) कृ, विपूर्व० । वर्त० अन्ते । 'कृग-तनादेरुः' (३।४।८३) उविकरणु । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० → उ० । 'इवर्णादे०' (१।२।२१) उ० → व० ।, हादह-स्वरस्यानु नवा' (१।३।३१) द्वित्वम् । 'अनतोऽन्तोऽदात्मने' (४।२।११४) नलोपः । सिन्धौ जाताः । 'जाते' (६।३।९८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः ऐ । 'अस्वयम्भुवोऽव' (७।४।७०) अव । प्रथमा जस् । P. सिन्धुषु भवाः = सैन्धवाः । 'भवे' (६।३।१२३) अण्प्र० । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy