SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५० व्यक्तवाचां सहोक्तौ || ३ | ३ ॥७९॥ [व्यक्तवाचाम्] ‘अञ्जौप् व्यक्ति-म्रक्षण- गतिषु' (१४८८) अञ्ज, विपूर्व० । व्यनक्ति स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त । 'नो व्यञ्जनस्याऽनुदितः ' ( ४।२।४५ ) नलोपः । 'च-जः क - गम्' (२।११८६) ज०म० । 'अघोषे प्रथमोऽशिटः' (१।३।५० ) ग० क० । व्यक्ता = व्यक्तवाचस्तासाम् । प्रकटाक्षरा वाग् येषां ते [सहोक्तौ] सह 'वचंक् भाषणे' (१०९६) वच् । सह वचनम् । 'स्त्रियां क्तिः ' ( ५ । ३ । ९१) क्तिप्र० ति । ‘यजादिवचेः किंति' (४।१।७९) य्वृत् व० उ० तस्याम् । [ संप्रवदन्ते ग्राम्याः] ग्रामे भवाः = ग्राम्याः । 'ग्रामादीनञ् च' (६।३।९) यप्र० । संभूय भाषन्त इत्यर्थः । शुक-सारिकादीनामपि व्यक्तवाक्त्वात् सहोक्ताविच्छन्त्यन्ये । [चैत्रेणोक्ते मैत्रो वदति ] चैत्र तृतीया टा । 'वचंक् भाषणे' (१०९६) वच् । उच्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त । ‘यजादि-वचेः किति' (४।१।७९) व० उ० । चजः क- गम्' (२।११८६) च० क०, तस्मिन्, मैत्रो वदति ॥ छ ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । विवादे वा || ३ | ३१८० ॥ [विवादे] विरुद्धार्थो वादः = विवादस्तस्मिन् । [व] वा प्रथमा सि । [विप्रवदन्ते विप्रवदन्ति वा मौहूर्त्ताः ] विप्रवदन्ते । मुहूर्तं विदन्ति अधीयते वा । 'तद्वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्रथमा जस् । परस्परप्रतिषेधेन समकालं विरुद्धं वदन्तीत्यर्थः । [ संप्रवदन्ते वैयाकरणाः ] सह वदन्तीत्यर्थः । [संप्रवदन्ति शकुनयः ] पक्षिणो नानारुतं कुर्वन्तीत्यर्थः ॥ छ || Jain Education International अनोः कर्मण्यसति ||३ । ३ । ८१ ।। [ अनोः] अनु पञ्चमी ङसि । ' ङित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां ङसिङसो र: ' (१।४।३५) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [कर्मणि] कर्मन् सप्तमी ङि । [ असति ] अस्तीति सन् । न सन् [ अनुवदते चैत्रो मैत्रस्य] यथा मैत्रो वदति तथा चैत्रो वदतीत्यर्थः । [ अनुवदते आचार्यस्य शिष्यः] आचार्येण पूर्वमुक्ते पश्चाद् वदतीत्यर्थः । 1. [ " वाचिक - षडिको न संवदेते " ] वाग् - आशिस् । अनुकम्पितो वागाशीः- वागाशीर्दत्तो वा । अनुकम्पितः षडंगुलिः - षडङ्गुलिर्दत्तो वा । ‘अजातैर्नृनाम्नो बहुस्वरादियेकेलं वा' (७| ३ | ३५) इकप्र० । प्रथमे 'षड्वर्जेकस्वरपूर्वपदस्य स्वरे' ( ७।३।४० ) आशीरादिलोपः । द्वितीये 'द्वितीयाद् स्वरादूर्ध्वम्' (७।३।४१) अङ्गुलिलोप इति रूपसिद्धिः । 'धुटस्तृतीयः' (२।१।७६) प० = असन् । 'नञत्' (३।२।१२५) न० अ० तस्मिन् । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy