SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ [ जनवादान् प्रकुरुते ] जनस्याऽपवादाः = जनापवादास्तान् प्रकुरुते । कथयितुमारभते, प्रकर्षेण कथयति वेत्यर्थः । [शतं प्रकुरुते ] धर्मादौ विनियुङ्क्त इत्यर्थः ॥ छ। [ अधेः] अधि पञ्चमी इसि । प्रहसनं = अधेः प्रसहने || ३ | ३ ॥७७॥ पराभिभवः परेणापराजयो वा । [तं हाऽधिचक्रे] तद् 'गौणात् समया - निकषा-हा-धिगन्तरा -ऽन्तरेणाऽति-येन तेनैर्द्वितीया' (२।२।३३) द्वितीया अम् । ह प्रथमा सि । ‘अव्ययस्य' ( ३।२।७) सिलोपः । 'डुकंग् करणे' (८८८) कृ, अधिपूर्व० । परोक्षा ए । 'द्विर्धातुः परोक्षाङे०' (४।१।१) “कृ” द्वित्वम् । 'ऋतोऽत्' (४।१।३८) कृ० क० । 'क-डञ्च - ञ्' (४।१।४६) क० च० । तं प्रसेहे, तमभिभूतवान् तेन वा न पराजित इत्यर्थः ॥ छ। Jain Education International १४९ दीप्ति - ज्ञान-यत्न - विमत्युपसंभाषोपमन्त्रणे वदः || ३ | ३ |७८ ।। [दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे ] दीप्तिश्च ज्ञानं च यत्नश्च विमतिश्च उपसंभाषश्च उपमन्त्रणं च = तत् तस्मिन् । [वदः] वद् पञ्चमी इसि । [ वदते विद्वान् स्याद्वादे] 'वद व्यक्तायां वाचि' (९९८) वद् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३१४१०१) शब् । सम्यग्ज्ञानादनाकुलकथनाच्च विकसितमुखत्वाद् दीप्यमानो वदतीति वा वदन् दीप्यते इति वा दीप्यत एवेति वेत्यर्थः । [वदते धीमांस्तत्त्वार्थे] वदते । धीर्बुद्धिर्विद्यते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः (७।२।१) मतुप्र० → मत् । प्रथमा सि । ‘ऋदुदितः' (१।४।७०) नोऽन्तः । ' अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । ' दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः । तत्त्वस्याऽर्थस्तत्त्वार्थस्तस्मिन् । ज्ञात्वा वदतीति वा, जानाति वदितुमिति वा वदन् जानातीति वा, जानात्येव वेत्यर्थः । [श्रुते वदते, तपसि वदते] तद्विषयमुत्साहं वाचाविः करोति, तत्रोत्सहते इति वेत्यर्थः । [धर्मे विवदन्ते] धर्म सप्तमी ङि । विवदन्ते = विमतिपूर्वकं विचित्रं भाषन्त इति वा, विविधं मन्यन्त इति वेत्यर्थः । [कर्मकरानुपवदते] कर्माणि कुर्वन्तीति । 'अच्' (५।१।४९) अच्प्र० अ । 'नामिनो गुणोऽक्ङिति' (४|३|१ ) गु० अर्, तान् । उपवदते उप 'सान्त्वण् सामप्रयोगे' (१७०२ ) सान्त्व् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । वर्त्त० तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । उपलभते वेत्यर्थः । उपमन्त्रणं रहसि उपच्छन्दनम् । [उपच्छन्दनम्] उपच्छन्दस् । छन्दसा उपचरति । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।१७) णिच्प्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अस्लोपः । उपच्छन्द्यते । 'णि वेत्त्यास - श्रन्थ- घट्ट-वन्देरनः ' ( ५1३1999 ) अनप्र० । 'णेरनिटि ' ( ४ | ३ |८३) णिच्लोपः । [कुलभार्यामुपवदते, परदारानुपवदते] आभरणादीनि दास्यामि, रहस्युपलोभयतीत्यर्थः ॥छ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy