________________
१४८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[ईक्षामास] ईक्षि दर्शने' (८८२) ईक्ष् । परोक्षा ए । 'गुरुनाम्यादेरनृच्छूर्णोः' (३।४।४८) आम् । 'असक् भुवि' (११०२) अस् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-३०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) सलोपः । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) आ । 'समानानां०' (१।२।१) दीर्घः ।
[ईक्षांबभूव] 'ईक्षि दर्शने' (८८२) ईक्ष् । परीक्षा ए । 'गुरुनाम्यादेरनृच्छूर्णोः' (३।४।४८) आम् । 'भू सत्तायाम्' (१) भू । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्वित्वम् । 'हस्वः' (४।१३९) हूस्वत् । 'भू-स्वपोरदुतौ' (४।१७०) उ० → अ० । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'भुवो वः परोक्षा-ऽद्यतन्योः ' (४।२।४३) इति आकारस्य ऊकारः ।।छ।।
गन्धना-ऽवक्षेप-सेवा-साहस-प्रतियन-प्रकथनोपयोगे ।।३।३।७६।। गन्धनाऽवक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे] गन्धनं च अवक्षेपश्च सेवा च साहसं च प्रतियत्नश्च प्रकथनं च उपयोगश्च = तत्, तस्मिन् ।
गन्धनं = द्रोहेणाभिप्रायेण परदोषोद्घाटनम्, प्रोत्साहनादिकमन्ये अनुमननं प्रवर्त्तनम् ।
[उत्कुरुते] उत् 'डुकंग करणे' (८८८) कृ । वर्त० ते । 'कृग्-तनादेरुः' (३।४।८३) उ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० → उ० ।
[उदाकुरुते माम] उत्-आयूर्व० कृ । वर्त्त० ते । शेषं पूर्ववत् ।
[अध्याकुरुते जिघांसुः] अधि-आङ्पूर्व० कृ । वर्त० ते । शेषं पूर्ववत् । 'हनं हिंसा-गत्योः' (११००) हन् । हन्तुमिच्छति । 'तुमर्हादि०' (३।४।२१) सन्प० । 'सन्-यडश्च' (४।१३) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलोपः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'सन्यस्य' (४१५९) इ । 'अड़े हि-हनो हो घः पूर्वात्' (४।१३४) ह० → घ० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः आ । जिघांसनं = जिघांसुः । ‘सन्-भिक्षा-ऽऽशंसेरुः' (५।२।३३) उप्र० । 'अतः' (४।३।८२) अलोपः । अपकर्ने कथयतीत्यर्थः ।
[दुर्वृत्तानवकुरुते कुत्सयतीत्यर्थः] दुर्वृत्तः, दुष्टं वृत्तं येषां ते = दुर्वृत्ताः, तान, अवकुरुते = कुत्सयतीत्यर्थः । कुत्सयतीत्यत्र आत्मनेपदस्य अनित्यत्वात् परस्मैपदम् । 'आत्मनेपदमनित्यम्' (न्या० सं० २३७) ।
[श्यनो वर्तिकामपकुरुते श्येन प्रथमा सि । वर्त्तिका द्वितीया अम् । उ(अ)पकुरुते । भर्ल्सयत इत्यर्थः ।
[महामात्रानुपकुरुते] महत् । 'अधातूदृदितः' (२।४।२) डी । महती मात्रा यस्य सः = महामात्रस्तान् । 'परतः स्त्री पुंवत्' (३१२१४९) डीलोपः । 'जातीयैकार्थेऽच्चेः' (३।२७०) डाप्र० → आ । 'डित्यन्त्यस्वरादेः' (२११११४) अत्लोपः । द्वितीया शस् । उपकुरुते = सेवते इत्यर्थः ।
[परदारान् प्रकुरुते] परदारः । परेषां दाराः = परदारास्तान् प्रकुरुते । प्र 'डुकंग करणे' (८८८) कृ । वर्त्त० ते । 'कृग-तनादेरुः' (३।४।८३) उ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० → उ० । विनिपातमविभाव्य तान अभिगच्छतीत्यर्थः ।
__.. [एधोदकस्योपस्कुरुते] एधश्च उदकं च = एधोदकम्, तस्य । उप 'डुकंग करणे' (८८८) कृ । 'उपाद् भूषा-समवायप्रतियन-विकार-वाक्याऽध्याहारे' (४।४।९२) स्सट् → स्० । वर्त० ते । 'कृग्-तनादेरुः' (३।४।८३) उ । गुणे सति ‘अतः शित्युत्' (४।२।८९) अ० → उ० । तत्र गुणान्तरमादधातीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org