SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [गोपायति] 'गुपि गोपन- कुत्सनयो:' ( ७६३) गुप् । गोपमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे० ' ( ३।४।२०) णिग्प्र० (?) । ('गुपौ रक्षणे' (३३२) गुप् । स्वार्थे 'गुपौ - धूप- विच्छि०' (३।४।१) आयप्र० ।) 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त॰ तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । [मानयति ] 'मानण् पूजायाम्' (१९६९) मान् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । वर्त्त० तिव् 1 ‘कर्त्तर्यनद्भ्यः शव्’ (३।४।७१ ) शब् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । निरस्यति कश्चित् रक्षति कश्चित् पूजयति कश्चित् ॥ छ। आमः कृगः || ३ | ३ |७५ ।। [आम] आम् पञ्चमी इसि । [कृगः ] कृग् पञ्चमी इसि । [ईहांचक्रे] 'ईहि चेष्टायाम्' (८५७) ईह् । परोक्षा ए । 'गुरुनाम्यादेरनृच्छूर्णोः' ( ३।४।४८ ) ए० आम्० । 'डुकंग् करणे' (८८८) कृ । अनेन आत्मनेपदविधिः । परोक्षा ए । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्वित्वम् । 'ऋतोऽत्' (४।१।३८) क० । 'कङश्च ञ्' (४।१।४६) क० च० । 'इवर्णादे० ' (१।२।२१ ) २० । कृ० [ईक्षांचक्रे] 'ईक्षि दर्शने' (८८२) ईक्ष् । परोक्षा ए । 'गुरुनाम्यादेरनृच्छूर्णो:' ( ३।४।४८) ए० → आम्० । शेषं पूर्ववत् । [बिभयांचकार] 'ञिर्भीक् भये' (११३२) भी । परोक्षा णव् अ । 'भी-ड्री- भृ-होस्तिव्वत्' ( ३।४।५०) आम् । ‘हवः शिति' (४।१।१२) “भी” सिउं द्वित्वम् । 'ह्रस्वः' (४।१।३९) ह्रस्वत् । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'डुकृंग् करणे' (८८८) कृ । परोक्षा व् । 'द्विर्धातुः परोक्षा-डे० ' ( ४|१|१) “कृ” द्वित्वम् । 'ऋतोऽत्' (४।१।३८) कृ० क० । 'क-डश्च-ञ्' (४।१।४६) च० । 'नामिनोऽकलि-हले : ' ( ४ | ३ |५१ ) वृद्धिः आर् । क० १४७ [जागरांचकार] ‘जागृक् निद्राक्षये' (१०९३) जागृ । परोक्षा णव् । 'जाग्रुप- समिन्धेर्नवा' ( ३।४।४९) आम्० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । चकार पूर्ववत् । [बिभरांचक्रे, बिभरांचकार] 'टुडुभृंग्क् पोषणे च' (११४०) भृ । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । ‘ऋतोऽत्’ (४।१।३८) ऋ० अ० । 'द्वितीय- तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । 'पृ-भृ-मा-हाङामिः ' (४।१।५८) इ० पूर्वम् । 'भी- ही भृ-होस्तिव्वत्' ( ३।४।५० ) आम्० । चक्रे चकार पूर्ववत् । गुपि गोपन- कुत्सनयोः णिगि गोपयति भवति । [पाचयांचक्रे, पाचयांचकार] 'डुपचष् पाके' (८९२) पच् । पपाच कश्चित् तमन्यः प्रयुयुजे । 'प्रयोक्तृव्यापारे णिग्’ (३।४।२०) णिग्प्र० → इ । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । परोक्षा ए । 'धातोरनेकस्वरादाम् परोक्षायाः, कृभ्व चानु तदन्तम् ' ( ३।४।४६ ) आम् । 'आमन्ताऽऽल्वाऽऽय्येनावय्' (४।३।८५) अय् । चक्रे चकार पूर्ववत् । Jain Education Intemational - For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy